०६

01 अक्तं रिहाणा इति …{Loading}…

अक्तं रिहाणा इति जुह्वामग्रम् । प्रजां योनिमित्युपभृति मध्यम् । आप्यायन्तामाप ओषधय इति ध्रुवायां मूलम् । एवं त्रिः १

02 अपि वा दिव्यङ्क्ष्वेति …{Loading}…

अपि वा दिव्यङ्क्ष्वेति जुह्वामग्रम् । अन्तरिक्षेऽङ्क्ष्वेत्युपभृति मध्यम् । पृथिव्यामङ्क्ष्वेति ध्रुवायां मूलम् २

03 एवम् पुनः …{Loading}…

एवं पुनः ३

04 अथापरम् पृथिव्यै त्वेति …{Loading}…

अथापरम् । पृथिव्यै त्वेति ध्रुवायां मूलमन्तरिक्षाय त्वेत्युपभृति मध्यं द्विवे त्वेति जुह्वामग्रम् ४

05 आयुषे त्वेत्यक्तस्य तृणमपादाय …{Loading}…

आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय दक्षिणोत्तराभ्यां पाणीभ्यां क्प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्यासीन आश्राव्य प्रत्याश्राविते सम्प्रेष्यतीषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति ५

06 अनूच्यमाने सूक्तवाके मरुताम् …{Loading}…

अनूच्यमाने सूक्तवाके मरुतां पृषतय स्थेति सह शाखया प्रस्तरमाहवनीये प्रहरति ६

07 न स्वाहाकरोति …{Loading}…

न स्वाहाकरोति ७

08 न विधूनोति नावधूनोति …{Loading}…

न विधूनोति नावधूनोति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि नोदञ्चं प्रहरेत् ८

09 तिर्यञ्चं हस्तन् धारयन्कर्षन्निवाहवनीये …{Loading}…

तिर्यञ्चं हस्तं धारयन्कर्षन्निवाहवनीये प्रहरति ९

10 न प्रतिशृणातीत्युक्तम् …{Loading}…

न प्रतिशृणातीत्युक्तम् १०

11 प्रथयित्वा प्रहरेद्यङ् कामयेत …{Loading}…

प्रथयित्वा प्रहरेद्यं कामयेत स्त्र्यस्य जायेतेति ११

12 आशीः प्रति प्रस्तरमवसृजति …{Loading}…

आशीः प्रति प्रस्तरमवसृजति १२

इति षष्ठी कण्डिका


  1. TS I.1.13.d. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.13.e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.1.13.f. ↩︎ ↩︎ ↩︎ ↩︎

  4. TB III.3.8.11. ↩︎