०५

01 औपभृतं हुह्वामानीय जुहूपभृतावादाय ...{Loading}...

औपभृतं हुह्वामानीय जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेणाघारसंभेदं प्रतीचस्त्रीननूयाजान्यजत्याश्रावमाश्रावं प्रत्याश्राविते देवान्यजेति प्रथमं सम्प्रेष्यति । यज यजेतीतरौ १

02 पूर्वार्धे प्रथमं समिधि ...{Loading}...

पूर्वार्धे प्रथमं समिधि जुहोति मध्ये द्वितीयं प्राञ्चमुत्तमं संस्थापयन्नितरावनुसम्भिद्य २

03 प्रत्याक्रम्यायतने स्रुचौ सादयित्वा ...{Loading}...

प्रत्याक्रम्यायतने स्रुचौ सादयित्वा वाजवतीभ्यां व्यूहति ३

04 वाजस्य मा प्रसवेनेति ...{Loading}...

वाजस्य मा प्रसवेनेति दक्षिणेन हस्तेनोत्तानेन सप्रस्तरां जुहूमुद्यच्छति । अथा सपत्नानिति सव्येनोपभृतं नियच्छति ४

05 उद्ग्राभञ् चेति जुहूमुद्यच्छति ...{Loading}...

उद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छति ५

06 ब्रह्म देवा अवीवृधन्निति ...{Loading}...

ब्रह्म देवा अवीवृधन्निति प्राचीं जुहूं प्रोहति ६

07 अथा सपत्नानिति सव्येनोपभृतम् ...{Loading}...

अथा सपत्नानिति सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरसित्वा प्रोक्ष्यैनामभ्युदाहृत्य जुह्वा परिधीननक्ति वसुभ्यस्त्वेति मध्यमं रुद्रेभ्यस्त्वेति दक्षिणमादित्येभ्यस्त्वेत्युत्तरम् ७

08 न प्रस्तरे जुहूं ...{Loading}...

न प्रस्तरे जुहूं सादयति ८

09 सञ्जानाथान् द्यावापृथिवी मित्रावरुणौ ...{Loading}...

सञ्जानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावतामिति विधृतीभ्यां प्रस्तरमपादाय बर्हिषि विधृती अपिसृज्य स्रुक्षु प्रस्तरमनक्ति ९

इति पञ्चमी कण्डिका


  1. See II.17.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Prastara was kept on the Vidhr̥ti-s. See II.9.13. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TB III.3.9.2. For details see the next Sūtra. ↩︎ ↩︎