०४

01 दक्षिणसद्भ्य उपहर्तवा इति ...{Loading}...

दक्षिणसद्भ्य उपहर्तवा इति सम्प्रेष्यति १

02 ये ब्राह्मणा उत्तरतस्तान्यजमान ...{Loading}...

ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति २

03 तेभ्योऽन्वाहार्यन् ददाति ब्राह्मणा ...{Loading}...

तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा अयं व ओदन इति ३

04 प्रतिगृहीत उत्तरतः परीतेति ...{Loading}...

प्रतिगृहीत उत्तरतः परीतेति सम्प्रेष्यति ४

05 हविः शेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः ...{Loading}...

हविः शेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निं च सृकृत्सम्मृड्ढीति सम्प्रेष्यति ५

06 अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ...{Loading}...

अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति ६

07 पूर्ववत्परिधीन्सकृत्सकृत्सम्मृज्याग्ने वाजजिद्वाजन् त्वा ...{Loading}...

पूर्ववत्परिधीन्सकृत्सकृत्सम्मृज्याग्ने वाजजिद्वाजं त्वा ससृवांसं वाजं जिगिवांसं वाजिनं वाजजितं वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्यायेति सकृदग्निं प्राञ्चम् ७

08 इध्मसन्नहनान्यद्भिः संस्पर्श्य यो ...{Loading}...

इध्मसन्नहनान्यद्भिः संस्पर्श्य यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्युअस्यति शालायां बलजायां परोगोष्ठे परोगव्यूतौ वा ८

इति चतुर्थी कण्डिका इति प्रथम पटलः


  1. viz. Hotr̥, Adhvaryu and Āgnīdhra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See III.7.15. ↩︎ ↩︎ ↩︎ ↩︎

  3. See II.9.8. ↩︎

  4. With the ritual of Anūyājas. ↩︎

  5. See I.5.11; II.12.6.. ↩︎

  6. Contrast II.12.10. ↩︎