०३

01 वाग्यता आसत आ …{Loading}…

वाग्यता आसत आ मार्जनात् १

02 मनो ज्योतिर्जुषतामित्यद्भिरन्तर्वेदि प्रस्तरे …{Loading}…

मनो ज्योतिर्जुषतामित्यद्भिरन्तर्वेदि प्रस्तरे मार्जयित्वाग्नेयं पुरोडाशं चतुर्धाकृत्वा बर्हिषदं करोति बर्हिषदं वा कृत्वा चतुर्धाकरोति २

03 तं यजमानो व्यादिशतीदम् …{Loading}…

तं यजमानो व्यादिशतीदं ब्रह्मण इदं होतुरिदमध्वर्योरिदमग्नीध इति ३

04 अग्नीत्प्रथमान्होतृप्रथमान्वा …{Loading}…

अग्नीत्प्रथमान्होतृप्रथमान्वा ४

05 इदं यजमानस्येत्यध्वर्युर्यजमानभागन् निर्दिश्य …{Loading}…

इदं यजमानस्येत्यध्वर्युर्यजमानभागं निर्दिश्य स्थविष्ठमग्नीधे षडवत्तं सम्पादयति ५

06 सकृदुपस्तीर्य द्विरादधदुपस्तीर्य द्विरभिघारयति …{Loading}…

सकृदुपस्तीर्य द्विरादधदुपस्तीर्य द्विरभिघारयति ६

07 अपि वा द्विरुपस्तृणाति …{Loading}…

अपि वा द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति ७

08 अग्नेराग्नीध्रमस्यग्नेः शामित्रमसि नमस्ते …{Loading}…

अग्नेराग्नीध्रमस्यग्नेः शामित्रमसि नमस्ते अस्तु मा मा हिंसीरित्याग्नीध्रो भक्षयति ८

09 वेदेन ब्रह्मयजमानभागौ परिहरति …{Loading}…

वेदेन ब्रह्मयजमानभागौ परिहरति ९

10 पृथक् पात्राभ्यामितरयोः …{Loading}…

पृथक् पात्राभ्यामितरयोः १०

11 पृथिव्यै भागोऽसीति होता …{Loading}…

पृथिव्यै भागोऽसीति होता भक्षयत्यन्तरिक्षस्य भागो ऽसीत्यध्वर्युर्दिवो भागोऽसीति ब्रह्मा ११

12 दक्षिणाग्नावन्वाहार्यम् महान्तमपरिमितमोदनम् पचति …{Loading}…

दक्षिणाग्नावन्वाहार्यं महान्तमपरिमितमोदनं पचति १२

13 क्षीरे भवतीत्येके …{Loading}…

क्षीरे भवतीत्येके १३

14 तमभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य …{Loading}…

तमभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यासाद्य १४

इति तृतीया कण्डिका


  1. See the next Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See TS II.6.8.3. ↩︎

  3. Cf. TB III.3.8.6. ↩︎