०२

01 अभिघार्येडां होत्रे प्रदाय ...{Loading}...

अभिघार्येडां होत्रे प्रदाय दक्षिणेन होतारमतिक्रामत्यनुत्सृजन् १

02 होतेडयाध्वर्युम् परिगृह्णाति ...{Loading}...

होतेडयाध्वर्युं परिगृह्णाति २

03 अपि वा प्राचीमिडामपोह्य ...{Loading}...

अपि वा प्राचीमिडामपोह्य दक्षिणत आसीनः स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति ३

04 अपरमङ्क्त्वा पूर्वमेतद्वा विपरीतम् ...{Loading}...

अपरमङ्क्त्वा पूर्वमेतद्वा विपरीतम् ४

05 उपसृष्टोदकाय पुरस्तात्प्रत्यङ्ङासीन इडाया ...{Loading}...

उपसृष्टोदकाय पुरस्तात्प्रत्यङ्ङासीन इडाया होतुर्हस्तेऽवान्तरेडामवद्यति ५

06 अध्वर्युः प्रथममवदानमवद्यति स्वयं ...{Loading}...

अध्वर्युः प्रथममवदानमवद्यति स्वयं होतोत्तरम् एतद्वा विपरीतम् ६

07 लेपादुपस्तरणाभिघारणे भवतः ...{Loading}...

लेपादुपस्तरणाभिघारणे भवतः ७

08 द्विरभिघारयेत्पञ्चावत्तिनः उपहूयमानामन्वारभेते अध्वर्युर्यजमानश्च ...{Loading}...

द्विरभिघारयेत्पञ्चावत्तिनः । उपहूयमानामन्वारभेते अध्वर्युर्यजमानश्च । दैव्या अध्वर्यव उपहूता इत्यभिज्ञायोपहूतः पशुमानसानीत्यध्वर्युर्जपति । उपहूतोऽयं यजमान इत्यभिज्ञायैतमेव मन्त्रं यजमानः ८

09 उपहूतायामग्रेणाहवनीयम् ब्रह्मणे प्राशित्रम् ...{Loading}...

उपहूतायामग्रेणाहवनीयं ब्रह्मणे प्राशित्रं परिहरति ९

10 तस्मिन्प्राशिते होतावान्तरेडाम् प्राश्नाति ...{Loading}...

तस्मिन्प्राशिते होतावान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदस्पतये त्वा हुतं प्राश्नामीति १०

11 प्राशितायामिडे भागञ् जुषस्व ...{Loading}...

प्राशितायामिडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम सर्वात्मानः सर्वगणा इति यजमानपञ्चमा इडां प्राश्य ११

इति द्वितीया कण्डिका


  1. Cf. SB I.8.1.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The Iḍā (in the Hand of the Hotr̥). ↩︎ ↩︎ ↩︎ ↩︎