०१

01 इडामेके पूर्वं समामनन्ति ...{Loading}...

इडामेके पूर्वं समामनन्ति प्राशित्रमेके १

02 आग्नेयम् पुरोडाशम् प्राञ्चन् ...{Loading}...

आग्नेयं पुरोडाशं प्राञ्चं तिर्यञ्चं वा विरुज्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्या व्यूह्य मध्यात्प्राशित्रमवद्यति यवमात्रं पिप्पलमात्रं वाज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूपुपाम यज्ञस्य शुद्धं स्विष्टमिदं हविरिति २

03 एवमुत्तरस्यावद्यति ...{Loading}...

एवमुत्तरस्यावद्यति ३

04 उपस्तीर्य नाभिघारयत्येतद्वा विपरीतम् ...{Loading}...

उपस्तीर्य नाभिघारयत्येतद्वा विपरीतम् । अपि वोपस्तृणात्यभि च घारयति ४

05 अत्रैवास्य परिहरणप्राशनमेके समामनन्ति ...{Loading}...

अत्रैवास्य परिहरणप्राशनमेके समामनन्ति ५

06 इडापात्र उपस्तीर्य सर्वेभ्यो ...{Loading}...

इडापात्र उपस्तीर्य सर्वेभ्यो हविर्भ्य इडां समवद्यति चतुरवत्तां पञ्चावत्तां वा ६

07 मनुना दृष्टाङ् घृतपदीम् ...{Loading}...

मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसम्भिन्दन्नवद्याम्येकतोमुखामित्याग्नेयस्य पुरोडाशस्य दक्षिणार्धात्प्रथममवदानमवद्यति ७

08 सम्भेदाद्द्वितीयम् ...{Loading}...

सम्भेदाद्द्वितीयम् ८

09 पूर्वार्धाच्च यजमानभागमणुमिव दीर्घम् ...{Loading}...

पूर्वार्धाच्च यजमानभागमणुमिव दीर्घम् ९

10 तमाज्येन सन्तर्प्य ध्रुवाया ...{Loading}...

तमाज्येन सन्तर्प्य ध्रुवाया उपोहति १०

11 अपि वा दक्षिणार्धादवदाय ...{Loading}...

अपि वा दक्षिणार्धादवदाय यजमानभागमथ सम्भेदात् ११

12 एवमुत्तरस्यावद्यति ...{Loading}...

एवमुत्तरस्यावद्यति १२

इति प्रथमा कण्डिका


  1. The portion of the bread to be eaten (pra-aś-)by the Brahman. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III.7.5.6. ↩︎ ↩︎