२१

01 ब्रह्म प्रतिष्ठा मनसो ...{Loading}...

ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानां हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । सं ते मनसा मनः सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहेत्येतैः प्रतिमन्त्रम् १

02 एष उपहोमानाङ् कालोऽनन्तरं ...{Loading}...

एष उपहोमानां कालोऽनन्तरं वा प्रधानात्प्राग्वा समिष्टयजुषः २

03 जुह्वामुपस्तीर्य सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति ...{Loading}...

जुह्वामुपस्तीर्य सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति । द्विः पञ्चावत्तिनः ३

04 दैवतसौविष्टकृतैडचातुर्धाकारणिकानामुत्तरमुत्तरञ् ज्यायः ...{Loading}...

दैवतसौविष्टकृतैडचातुर्धाकारणिकानामुत्तरमुत्तरं ज्यायः ४

05 द्विरभिघार्य न हविः ...{Loading}...

द्विरभिघार्य न हविः प्रत्यभिघारयति ५

06 अग्नये स्विष्टकृतेऽनुब्रूह्यग्निं स्विष्टकृतं ...{Loading}...

अग्नये स्विष्टकृतेऽनुब्रूह्यग्निं स्विष्टकृतं यजेति सम्प्रैषो । उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतीभिः ६

07 प्रत्याक्रम्य जुह्वामप आनीय ...{Loading}...

प्रत्याक्रम्य जुह्वामप आनीय वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सं शतधारमेतम् । स नः पितरं पितामहं प्रपितामहं स्वर्गे लोके पिन्वमानो बिभर्तु स्वाहेत्यन्तःपरिधि निनयति निनयति ७

इत्येकविंशी कण्डिका इति षष्ठः पटलः इति द्वितीयः प्रश्नः


  1. TB III.7.11.1; TS I.3.10.a; II.3.14.u. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎