२०

01 अग्नीषोमौ भ्रातृव्यवान् ...{Loading}...

अग्नीषोमौ भ्रातृव्यवान् १

02 आग्नेयवदुत्तरैर्हविर्भिर्यथादेवतम् प्रचरति ...{Loading}...

आग्नेयवदुत्तरैर्हविर्भिर्यथादेवतं प्रचरति २

03 समवदाय दोहाभ्याम् ...{Loading}...

समवदाय दोहाभ्याम् ३

04 दध्नोऽवदाय शृतस्यावद्यत्येतद्वा विपरीतम् ...{Loading}...

दध्नोऽवदाय शृतस्यावद्यत्येतद्वा विपरीतम् । सर्वाणि द्रवाणि स्रुङ्मुखेन जुहोति ४

05 स्रुवेण पार्वणौ होमौ ...{Loading}...

स्रुवेण पार्वणौ होमौ । ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहतां सुवीर्यं रायस्पोषं सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहतां सुवीर्यं रायस्पोषं सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाम् ५

06 नारिष्ठान्होमाञ्जुहोति दश ते ...{Loading}...

नारिष्ठान्होमाञ्जुहोति दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्राशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् । यं वां देवा अकल्पयन्नूर्जो भागं शतक्रतू । एतद्वां तेन प्रीणाति तेन तृप्यतमंहहौ ॥ अहं देवानां सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान्यदाभ्यामिन्द्रो अदधाद्भागधेयम् ॥ अदारसृद्भवत देव सोमास्मिन्यज्ञे मरुतो मृडता नः । मा नो विददभिभामो अशस्तिर्मा नो विदद्वृजना द्वेष्या या ६

इति विंशी कण्डिका


  1. TB III.7.5.11-13. The Sutra is incomplete. See the next Sūtra. ↩︎ ↩︎