१९

01 स्रुवेणाज्यसान्नाय्ययोः ...{Loading}...

स्रुवेणाज्यसान्नाय्ययोः १

02 आनुजावरस्य पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे ...{Loading}...

आनुजावरस्य पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे स्रुचो निदध्यात् । मध्यादपरमवदाय पश्चार्धे स्रुचः २

03 पूर्वप्रथमान्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो ...{Loading}...

पूर्वप्रथमान्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यात् ३

04 अपरप्रथमानि कनिष्ठस्य कानिष्ठिनेयस्य ...{Loading}...

अपरप्रथमानि कनिष्ठस्य कानिष्ठिनेयस्य यो वानुजावरो यो वा बुभूषेत् ४

05 अथ यदि पुरोहितः ...{Loading}...

अथ यदि पुरोहितः पुरोधाकामो वा यजेत पूर्वार्धात्प्रथममवदानमवदाय पूर्वार्धे स्रुचो निधाय पूर्वार्धेऽग्नेर्जुहुयात् ५

06 अवदानान्यभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः ...{Loading}...

अवदानान्यभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनरिति हविः प्रत्यभिघार्याग्नयेऽनुब्रूह्यग्निं यजेति सम्प्रैषौ ६

07 आज्यम् प्रश्चोत्यापिदधदिवाप्रक्षिणन्हुत्वाज्येनान्ववश्चोतयति ...{Loading}...

आज्यं प्रश्चोत्यापिदधदिवाप्रक्षिणन्हुत्वाज्येनान्ववश्चोतयति ७

08 आघारसम्भेदेनाहुतीः प्रतिपादयति ...{Loading}...

आघारसम्भेदेनाहुतीः प्रतिपादयति ८

09 स्रुच्यमाघारमभिजुहोति पूर्वाम्पूर्वां संहिताम् ...{Loading}...

स्रुच्यमाघारमभिजुहोति पूर्वाम्पूर्वां संहिताम् ९

10 यन् द्विष्यात्तं व्यृषन्मनसाहुतीर्जुहुयात् ...{Loading}...

यं द्विष्यात्तं व्यृषन्मनसाहुतीर्जुहुयात् १०

11 यदा वीतार्चिर्लेलायतीवाग्निरथाहुतीर्जुहोति ...{Loading}...

यदा वीतार्चिर्लेलायतीवाग्निरथाहुतीर्जुहोति ११

12 आज्यहविरुपांशुयाजः पौर्णमास्यामेव भवति ...{Loading}...

आज्यहविरुपांशुयाजः पौर्णमास्यामेव भवति वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा १२

13 प्रधानमेवोपांशु ...{Loading}...

प्रधानमेवोपांशु १३

14 विष्णुम् बुभूषन्यजेत ...{Loading}...

विष्णुं बुभूषन्यजेत १४

इत्येकोनविंशी कण्डिका


  1. Mixture of sweet and sour milk. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎