१८

01 आग्नेयः सौम्यश्चाज्यहविषावाज्यभागौ चतुर्गृहीताभ्याम् ...{Loading}...

आग्नेयः सौम्यश्चाज्यहविषावाज्यभागौ चतुर्गृहीताभ्याम् १

02 जमदग्नीनान् तु पञ्चावत्तमप्यजामदग्न्यो ...{Loading}...

जमदग्नीनां तु पञ्चावत्तमप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत सर्वत्र २

03 अवद्यन्नमुष्मा अनुब्रूहीति पुरोऽनुवाक्यां ...{Loading}...

अवद्यन्नमुष्मा अनुब्रूहीति पुरोऽनुवाक्यां सम्प्रेष्यति । अवदायावदाय स्रुवेण प्रस्तरबर्हिः समज्य जुहूपभृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्रावितेऽमुं यजेति याज्यामिति सार्वत्रिकम् ३

04 उत्तरार्धपूर्वार्धेऽग्नये जुहोति ...{Loading}...

उत्तरार्धपूर्वार्धेऽग्नये जुहोति ४

05 दक्षिणार्धपूर्वार्धे सोमाय समम् ...{Loading}...

दक्षिणार्धपूर्वार्धे सोमाय समं पूर्वेण ५

06 उभे ज्योतिष्मति ...{Loading}...

उभे ज्योतिष्मति ६

07 पूर्वमाज्यभागम् प्रति स्रुचावात्ते ...{Loading}...

पूर्वमाज्यभागं प्रति स्रुचावात्ते न निदधात्या स्विष्टकृतः ७

08 आज्यभागावन्तरेणेतरा आहुतीर्जुहोति ...{Loading}...

आज्यभागावन्तरेणेतरा आहुतीर्जुहोति ८

09 प्रत्याक्रम्य जुह्वामुपस्तीर्य मा ...{Loading}...

प्रत्याक्रम्य जुह्वामुपस्तीर्य मा भेर्मा संविक्था मा त्वा हिंसिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्चावदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिंसीरित्याग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरीचीनमवद्यति । पूर्वार्धाद्द्वितीयमनूचीनं चतुरवत्तिनः । पश्चार्धात्तृतीयं पञ्चावत्तिनः ९

10 असम्भिन्दन्मांससंहिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति ...{Loading}...

असम्भिन्दन्मांससंहिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति १०

इत्यष्टादशी कण्डिका


  1. The expression avatta is generally applicable to the sacrificial bread. Here it is used in the sense of scooping of the ghee. ↩︎ ↩︎ ↩︎

  2. The underlayer of ghee III.18.9 and the portion of ghee poured upon the portion of the bread (II. 19.6) are also to be counted as “portions”. The cut-portions are to be kept in the Juhū. ↩︎