१७

01 घृतवति शब्दे जुहूपभृतावादाय …{Loading}…

घृतवति शब्दे जुहूपभृताव् आदाय
दक्षिणा सकृद्-अतिक्रान्तो
ऽपरेणाघार-सम्भेदं
पञ्च प्रयाजान् प्राचो यजति १

02 प्रतिदिशं वा समिधः …{Loading}…

प्रतिदिशं वा समिधः पुरस्तात्, तनूनपातं दक्षिणत, इडः पश्चाद्, बर्हिर् उत्तरतः, स्वाहाकारं मध्ये २

03 सर्वान्वैकध्यम् …{Loading}…

सर्वान्वैकध्यम् ३

04 आश्रावमाश्रावम् प्रत्याश्राविते समिधो …{Loading}…

आश्रावमाश्रावं प्रत्याश्राविते समिधो यजेति प्रथमं सम्प्रेष्यति । यज यजेतीतरान् ४

05 यङ् कामयेताभितरं वसीयान्स्यादित्यभिक्रामन् …{Loading}…

यं कामयेताभितरं वसीयान्स्यादित्यभिक्रामं तस्य जुहुयादवतरं पापीयानिति प्रतिक्रामं न वसीयान्न पापीयानिति समानत्र तिष्ठन् ५

06 त्रीनिष्ट्वार्धमौपभृतस्य जुह्वामानीयोत्तराविष्ट्वा प्रत्याक्रम्य …{Loading}…

त्रीनिष्ट्वार्धमौपभृतस्य जुह्वामानीयोत्तराविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्यानुपूर्वं हवींष्यभिघारयत्युपभृतमन्ततः ६

07 न हवींष्यभिघारयेद्द्वेष्यस्य आयतने …{Loading}…

न हवींष्यभिघारयेद्द्वेष्यस्य । आयतने स्रुचौ सादयति ७

इति सप्तदशी कण्डिका इति पञ्चमः पटलः


  1. Cp. I.13.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The Āghāra-libations are offered cross-wise. The Prayājas are to be offered to the west of the point where the Āghāra-libation-lines cross each other. ↩︎