१६

01 अनपव्याहरन्तः प्रचरन्ति ...{Loading}...

अनपव्याहरन्तः प्रचरन्ति १

02 आश्रावयिष्यन्नान्यदाश्रावणाद्ब्रूयादाश्राविते नान्यदाग्नीध्रः प्रत्याश्रावणात् ...{Loading}...

आश्रावयिष्यन्नान्यदाश्रावणाद्ब्रूयादाश्राविते नान्यदाग्नीध्रः प्रत्याश्रावणात् । प्रत्याश्राविते नान्यदध्वर्युर्यजेति वचनाद्यजेत्युक्ते होता नान्यद्वषट्कारात् २

03 यद्यन्यद्ब्रूयात्पुनरेवाश्रावयेत् ...{Loading}...

यद्यन्यद्ब्रूयात्पुनरेवाश्रावयेत् ३

04 व्याहृतीर्वा जपेत् ...{Loading}...

व्याहृतीर्वा जपेत् ४

05 ऊर्ध्वज्ञुमासीनं होतारं वृणीतेऽग्निर्देवो ...{Loading}...

ऊर्ध्वज्ञुमासीनं होतारं वृणीतेऽग्निर्देवो होता देवान्यक्षद्विद्वांश्चिकित्वान्मनुष्ठद्भरतवदमुवदमुवदिति यथार्षेयो यजमानः ५

06 त्रीन्यथर्षि मन्त्रकृतो वृणीते ...{Loading}...

त्रीन्यथर्षि मन्त्रकृतो वृणीते ६

07 अपि वैकन् द्वौ ...{Loading}...

अपि वैकं द्वौ त्रीन्पञ्च ७

08 न चतुरो वृणीते ...{Loading}...

न चतुरो वृणीते न पञ्चातिप्रवृणीते ८

09 इत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होता ...{Loading}...

इत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होता ९

10 पुरोहितस्य प्रवरेण राजा ...{Loading}...

पुरोहितस्य प्रवरेण राजा प्रवृणीते १०

11 ब्रह्मण्वदा च वक्षद्ब्राह्मणा ...{Loading}...

ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्राबितार इति प्रवरशेषमाह ११

12 अपि वा नार्षेयं ...{Loading}...

अपि वा नार्षेयं वृणीते । मनुवदित्येव ब्रूयात् १२

13 सीदति होता ...{Loading}...

सीदति होता १३

14 होतुरुपांशु नाम गृह्णाति ...{Loading}...

होतुरुपांशु नाम गृह्णाति मानुष इत्युच्चैः १४

15 वेद्यान् तृणमपिसृजति ...{Loading}...

वेद्यां तृणमपिसृजति १५

इति षोडशी कण्डिका


  1. Cf. ŚB I.5.2.8-11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus e.g. if the sacrificer belongs to Jamadagni’s family one should utter “in the manner of Jamadagni, of Urva, of Bhr̥gu”. ↩︎ ↩︎

  3. See II. 11.10; XXIV. 12.6. ↩︎