१५

01 क इदमध्वर्युर्भविष्यति स …{Loading}…

क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवः सुवर्विष्णो स्थाने तिष्ठामीतीध्मसन्नहनानि स्फ्य उपसङ्गृह्य वेद्याश्च तृणमव्यन्तमादायोत्तरतः प्रवरायावतिष्ठेते पूर्वोऽध्वर्युरपर आग्नीध्रः १

02 इध्मसन्नहनान्याग्नीध्रोऽन्वारभ्य क इदमग्नीद्भविष्यति …{Loading}…

इध्मसन्नहनान्याग्नीध्रोऽन्वारभ्य क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यतीति मन्त्रं सन्नमति २

03 ब्रह्मन्प्रवरायाश्रावयिष्यामीति ब्रह्माणमामन्त्र्याश्रावयो श्रावय …{Loading}…

ब्रह्मन्प्रवरायाश्रावयिष्यामीति ब्रह्माणमामन्त्र्याश्रावयो श्रावय श्रावयोमाश्रावयेति वाश्रावयति ३

04 अस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करन् दक्षिणामुखस्तिष्ठन्स्फ्यं …{Loading}…

अस्तु श्रौषडित्याग्नीध्रोऽपरेणोत्करं दक्षिणामुखस्तिष्ठन्स्फ्यं सम्मार्गांश्च धारयन्प्रत्याश्रावयति ४

05 आग्नीध्रे सोमे …{Loading}…

आग्नीध्रे सोमे ५

06 सर्वत्रैवमाश्रुतप्रत्याश्रुते भवतः …{Loading}…

सर्वत्रैवमाश्रुतप्रत्याश्रुते भवतः ६

इति पञ्चदशी कण्डिका इति चतुर्थः पटलः


  1. See II.13.1. ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB I.5.1.3. ↩︎