१४

01 समारभ्योर्ध्वो अध्वर इति ...{Loading}...

समारभ्योर्ध्वो अध्वर इति प्राञ्चमुदञ्चमृजुं सन्ततं ज्योतिष्मत्याघारयन्सर्वाणीध्मकाष्ठानि संस्पर्शयति १

02 यङ् कामयेत प्रमायुकः ...{Loading}...

यं कामयेत प्रमायुकः स्यादिति जिह्मं तस्येत्युक्तम् २

03 ऊर्ध्वमाघार्य विच्छिन्द्याद्द्वेष्यस्य ...{Loading}...

ऊर्ध्वमाघार्य विच्छिन्द्याद्द्वेष्यस्य ३

04 व्यृषण्वा ...{Loading}...

व्यृषण्वा ४

05 न्यञ्चं वृष्टिकामस्य ...{Loading}...

न्यञ्चं वृष्टिकामस्य ५

06 द्वेष्यस्येत्येके ...{Loading}...

द्वेष्यस्येत्येके ६

07 ऊर्ध्वमाघारं स्वर्गकामस्य भूयिष्ठमाहुतीनाञ् ...{Loading}...

ऊर्ध्वमाघारं स्वर्गकामस्य भूयिष्ठमाहुतीनां जुहुयात् ७

08 अपि वा नाघारयेत्पूर्वार्धे ...{Loading}...

अपि वा नाघारयेत्पूर्वार्धे मध्ये पश्चार्धे वा जुहुयात् ८

09 हुत्वाभिप्राणिति ...{Loading}...

हुत्वाभिप्राणिति ९

10 बृहद्भा इति स्रुचमुद्गृह्य ...{Loading}...

बृहद्भा इति स्रुचमुद्गृह्य पाहि माग्ने दुश्चरितादा मा सुचरिते भजेत्यसंस्पर्शयन्स्रुचौ प्रत्याक्रामति १०

11 एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती ...{Loading}...

एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः ११

12 मखस्य शिरोऽसीति जुह्वा ...{Loading}...

मखस्य शिरोऽसीति जुह्वा ध्रुवां द्विस्त्रिर्वा समनक्ति १२

13 उन्नीतं राय इति ...{Loading}...

उन्नीतं राय इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहूमभिघार्य जुह्वोऽपादाय यज्ञेन यज्ञः सन्तत इति ध्रुवां प्रत्यभिघार्यायतने स्रुचौ सादयित्वा १३

इति चतुर्दशी कण्डिका


  1. TS 1.1.12.k,1,m. ↩︎ ↩︎ ↩︎ ↩︎

  2. See II. 10.2. The sentence is not complete. See the next Sūtra. ↩︎