१३

01 इध्मसन्नहनैः सहस्फ्यैरृतेस्फ्यैर्वाग्नीध्रोऽनुपरिक्रामम् परिधीन्यथापरिधितमन्वग्रन् …{Loading}…

इध्मसन्नहनैः सहस्फ्यैरृतेस्फ्यैर्वाग्नीध्रोऽनुपरिक्रामं परिधीन्यथापरिधितमन्वग्रं त्रिस्त्रिः सम्मृज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निं प्राञ्चम् १

02 भुवनमसीत्यग्रेण ध्रुवाञ् जुहूं …{Loading}…

भुवनमसीत्यग्रेण ध्रुवां जुहूं वाञ्चलिं कृत्वा जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम् २

03 सुयमे मे अद्य …{Loading}…

सुयमे मे अद्य घृताची भूयास्तं स्वावृतौ सूपावृतावित्युपभृति जुहूमत्यादधाति ३

04 मुखतोऽभिहृत्य मुखत उपावहरति …{Loading}…

मुखतोऽभिहृत्य मुखत उपावहरति ४

05 सर्वत्रैवमत्याधानोपावहरणे भवतः …{Loading}…

सर्वत्रैवमत्याधानोपावहरणे भवतः ५

06 न च संशिञ्जयति …{Loading}…

न च संशिञ्जयति नाभिदेशे च स्रुचौ धारयति ६

07 अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण …{Loading}…

अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण स्रुचोऽपरेण मध्यमं परिधिमनवक्रामं प्रस्तरं दक्षिणेन पदा दक्षिणातिक्रामत्युदक् सव्येन ७

08 एतद्वा विपरीतम् …{Loading}…

एतद्वा विपरीतम् ८

09 विष्णो स्थानमसीत्यवतिष्ठते …{Loading}…

विष्णो स्थानमसीत्यवतिष्ठते ९

10 अन्तर्वेदि दक्षिणः पादो …{Loading}…

अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रः सव्यः १०

11 अथोर्ध्वस्तिष्ठन्दक्षिणम् परिधिसन्धिमन्ववहृत्य …{Loading}…

अथोर्ध्वस्तिष्ठन्दक्षिणं परिधिसन्धिमन्ववहृत्य ११

इति त्रयोदशी कण्डिका


  1. Thus first the western then the southern and then the northern. See II.9.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See TB III.3.7.6; cp. also SB I.4.5.1. ↩︎ ↩︎ ↩︎

  3. TS I.1.12.c. ↩︎

  4. TS I.1.12.d. ↩︎