१२

01 अग्नये समिध्यमानायानुब्रूहीति सम्प्रेष्यति …{Loading}…

अग्नये समिध्यमानायानुब्रूहीति सम्प्रेष्यति समिध्यमानायानुब्रूहीति वा १

02 पञ्चदश सामिधेनीरन्वाह …{Loading}…

पञ्चदश सामिधेनीरन्वाह २

03 त्रींस्तचानित्युक्तम् …{Loading}…

त्रींस्तचानित्युक्तम् ३

04 प्रणवेप्रणवे समिधमादधाति …{Loading}…

प्रणवेप्रणवे समिधमादधाति ४

05 सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते …{Loading}…

सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते । प्रतिह्रसमानासु प्रकृतिवत् ५

06 समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य …{Loading}…

समिद्धो अग्न आहुतेत्यभिज्ञायैकामनूयाजसमिधमवशिष्य सर्वमिध्मशेषमभ्यादधाति परिधानीयायां वा ६

07 वेदेनाग्निन् त्रिरुपवाज्य स्रुवेण …{Loading}…

वेदेनाग्निं त्रिरुपवाज्य स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्यासीन उत्तरं परिधिसन्धिमन्ववहृत्य प्रजापतिं मनसा ध्यायन्दक्षिणाप्राञ्चमृजुं सन्ततं ज्योतिष्मत्याघारमाघारयन्सर्वाणीध्मकाष्ठानि संस्पर्शयति ७

08 आघारयोर्वदत्यृजू प्राञ्चौ होतव्यौ …{Loading}…

आघारयोर्वदत्यृजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यतिषक्तौ वा ८

09 स्रुवेणाज्यस्थाल्या आज्यमादायाप्यायतान् ध्रुवा …{Loading}…

स्रुवेणाज्यस्थाल्या आज्यमादायाप्यायतां ध्रुवा घृतेनेत्यवदायावदाय ध्रुवामाप्याययतीति सार्वत्रिकम् ९

10 अग्नीत्परिधींश्चाग्निञ् च त्रिस्त्रिः …{Loading}…

अग्नीत्परिधींश्चाग्निं च त्रिस्त्रिः सम्मृड्ढीति सम्प्रेष्यति १०

इति द्वादशी कण्डिका


  1. For the work of the Hotr̥ at this stage see XXIV.11.16. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. viz. RV III.27.1 (thrice), VI.16. 10-12; VII.12.3 (thrice). ↩︎ ↩︎