११

01 वेदेन भस्म प्रमृज्य ...{Loading}...

वेदेन भस्म प्रमृज्य तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति पात्र्यां प्रतिष्ठापयति १

02 तूष्णीं यवमयम् ...{Loading}...

तूष्णीं यवमयम् २

03 इरा भूतिः पृथिव्यै ...{Loading}...

इरा भूतिः पृथिव्यै रसो मोत्क्रमीदिति स्रुवेण कपालानि प्रत्यज्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण कपालानि प्रत्यज्य देवस्त्वा सविता मध्वानक्त्विति स्रुवेण पुरोडाशमनक्ति स्वक्तमकूर्मपृषन्तमपरिवर्गमणिकाषम् ३

04 उपरिष्टादभ्यज्याधस्तादुपानक्ति ...{Loading}...

उपरिष्टादभ्यज्याधस्तादुपानक्ति ४

05 चतुर्होत्रा पौर्णमास्यां हवींष्यासादयेत्पञ्चहोत्रामावास्यायाम् ...{Loading}...

चतुर्होत्रा पौर्णमास्यां हवींष्यासादयेत्पञ्चहोत्रामावास्यायाम् ५

06 प्रियेण नाम्ना प्रियं ...{Loading}...

प्रियेण नाम्ना प्रियं सद आसीदेति यदन्यद्धविर्दार्शपूर्णमासिकेभ्यस्तदेतेनासादयेदिति विज्ञायते ६

07 अपरेण स्रुचः पुरोडाशावासादयति ...{Loading}...

अपरेण स्रुचः पुरोडाशावासादयति ७

08 उत्तरौ दोहौ ...{Loading}...

उत्तरौ दोहौ ८

09 अपि वा मध्ये ...{Loading}...

अपि वा मध्ये वेद्याः सान्नाय्यकुम्भ्यौ सन्दधाति पूर्वं शृतमपरं दधि । अथैने व्युदूहति दक्षिणस्यां श्रोण्यां शृतमासादयत्युत्तरस्यां दधि ९

10 अयं वेदः पृथिवीमन्वविन्दद्गुहा ...{Loading}...

अयं वेदः पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्वित्यग्रेणोत्तरेण वा ध्रुवां वेदं निधाय वेद्यन्तान्परिस्तीर्य होतृषदनं कल्पयित्वा सामिधेनीभ्यः प्रतिपद्यते १०

इत्येकादशी कण्डिका इति तृतीयः पटलः


  1. TB III.7.5.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.3.5.d. ↩︎ ↩︎

  3. Cf. KS IX.14. ↩︎