१०

01 अपि वा जुहूमेव ...{Loading}...

अपि वा जुहूमेव प्रस्तरे १

02 समम् मूलैर्जुह्वा दण्डङ् ...{Loading}...

समं मूलैर्जुह्वा दण्डं करोति । उत्तरेण जुहूमुपभृतं प्रतिकृष्टतरामिवाधस्ताद्विधृत्योः । उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामिवोपरिष्टाद्विधृत्योः २

03 ऋषभोऽसि शाक्वरो घृताचीनां ...{Loading}...

ऋषभोऽसि शाक्वरो घृताचीनां सूनुः प्रियेण नाम्ना प्रिये सदसि सीदेति दक्षिणेन जुहूं स्रुवं सादयत्युत्तरेणोत्तरेण वा ध्रुवाम् ३

04 एता असदन्निति स्रुचोऽभिमन्त्र्य ...{Loading}...

एता असदन्निति स्रुचोऽभिमन्त्र्य विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्याज्यानि कपालवत्पुरोडाशादङ्गारानपोह्य सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्र्याप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामीत्याग्नेयं पुरोडाशमभिघारयति तूष्णीमुत्तरम् ४

05 यस्त आत्मा पशुषु ...{Loading}...

यस्त आत्मा पशुषु प्रविष्टो देवानां निष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति प्रातर्दोहम् ५

06 स्योनन् ते सदनङ् ...{Loading}...

स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि त इति पात्र्यामुपस्तीर्यार्द्रः प्रथस्नुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनामित्यपर्यावर्तयन्पुरोडाशमुद्वास्य ६

इति दशमी कण्डिका


  1. TB III.1.6.10. ↩︎ ↩︎ ↩︎ ↩︎

  2. MS I.1.12. ↩︎ ↩︎ ↩︎

  3. See I.25.12. ↩︎ ↩︎

  4. See I.24.6. ↩︎

  5. TB III.7.5.2. ↩︎

  6. TB III.7.5.2. ↩︎