०९

01 दर्भैर्वेदिमन्तर्धाय दक्षिणतः सन्नहनं …{Loading}…

दर्भैर्वेदिमन्तर्धाय दक्षिणतः सन्नहनं स्तृणात्यक्ष्णया वा १

02 ऊर्णाम्रदसन् त्वा स्तृणामीति …{Loading}…

ऊर्णाम्रदसं त्वा स्तृणामीति बर्हिषा वेदिं स्तृणाति बहुलमनतिदृश्यं प्रागपवर्गं प्रत्यगपवर्गं वा त्रिधातु पञ्चधातु वा २

03 अग्रैर्मूलान्यभिच्छादयति …{Loading}…

अग्रैर्मूलान्यभिच्छादयति ३

04 धातौधातौ मन्त्रमावर्तयति …{Loading}…

धातौधातौ मन्त्रमावर्तयति ४

05 प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि …{Loading}…

प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागग्रावितरौ ५

06 आहवनीयमभ्यग्रन् दक्षिणमवाग्रमुत्तरम् …{Loading}…

आहवनीयमभ्यग्रं दक्षिणमवाग्रमुत्तरम् ६

07 सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरन् …{Loading}…

सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरं धारयन्नग्निं कल्पयति ७

08 अनूयाजार्थे प्राची उल्मुके …{Loading}…

अनूयाजार्थे प्राची उल्मुके उदूहतीति वाजसनेयकम् ८

09 मध्यमम् परिधिमुपस्पृश्योर्ध्वे आघारसमिधावादधाति …{Loading}…

मध्यमं परिधिमुपस्पृश्योर्ध्वे आघारसमिधावादधाति ९

10 वीतिहोत्रन् त्वा कव …{Loading}…

वीतिहोत्रं त्वा कव इति दक्षिणां समिदस्यायुषे त्वेत्युत्तराम् १०

11 तूष्णीं वा …{Loading}…

तूष्णीं वा ११

12 समावनन्तर्गर्भौ दर्भौ विधृती …{Loading}…

समावनन्तर्गर्भौ दर्भौ विधृती कुरुते १२

13 विशो यन्त्रे स्थ …{Loading}…

विशो यन्त्रे स्थ इत्यन्तर्वेद्युदगग्रे निधाय वसूनां रुद्राणामादित्यानां सदसि सीदेति तयोः प्रस्तरमत्यादधाति १३

14 अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः …{Loading}…

अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः १४

15 जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः …{Loading}…

जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति १५

इति नवमी कण्डिका