०८

01 पूर्ववत्प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य विस्रस्येध्मङ् ...{Loading}...

पूर्ववत्प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य विस्रस्येध्मं कृष्णोऽस्याखरेष्ठ इति त्रिः प्रोक्षति । वेदिरसीति त्रिर्वेदिं बर्हिरसीति त्रिर्बर्हिः । अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम् १

02 स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति ...{Loading}...

स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति २

03 पोषाय त्वेति सहस्रुचा ...{Loading}...

पोषाय त्वेति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति दक्षिणायै श्रोणेरोत्तरस्याः सन्ततं निनीय पूषा ते ग्रन्थिं विष्यत्विति ग्रन्थिं विस्रंसयति ३

04 प्राञ्चमुद्गूढम् प्रत्यञ्चमायच्छति ...{Loading}...

प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति ४

05 विष्णो स्तूपोऽसीति कर्षन्निवाहवनीयम् ...{Loading}...

विष्णो स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति न प्रतियौति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि ५

06 अयम् प्राणश्चाक्पानश्च यजमानमपिगच्छताम् ...{Loading}...

अयं प्राणश्चाक्पानश्च यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारी पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामीति तस्मिन्पवित्रे अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति । यजमानो ब्रह्मणे ६

07 ब्रह्मा प्रस्तरन् धारयति ...{Loading}...

ब्रह्मा प्रस्तरं धारयति यजमानो वा ७

इत्यष्टमी कण्डिका


  1. Which is lying within the Vedi on the line of Sphya (See II.3.13). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See 1.10.11. ↩︎ ↩︎ ↩︎ ↩︎

  3. In the manner described in 1.19.1. ↩︎ ↩︎ ↩︎

  4. See 1.6.1. ↩︎

  5. See II.3.17. 76 ↩︎

  6. TS I.1.11.a. ↩︎

  7. TS I.1.11.b. ↩︎

  8. TS I.1.11.c. ↩︎