०७

01 शुक्रमसीति प्रथमञ् ज्योतिरसीति ...{Loading}...

शुक्रमसीति प्रथमं ज्योतिरसीति द्वितीयं तेजोऽसीति तृतीयम् १

02 पूर्ववदाज्यलिप्ताभ्याम् प्रोक्षणीरुत्पूयानिष्कासिना स्रुवेण ...{Loading}...

पूर्ववदाज्यलिप्ताभ्यां प्रोक्षणीरुत्पूयानिष्कासिना स्रुवेण वेदमुपभृतं कृत्वान्तर्वेद्याज्यानि गृह्णाति २

03 समम्बिलन् धारयमाणो जुह्वाम् ...{Loading}...

समम्बिलं धारयमाणो जुह्वां मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम् ३

04 चतुर्जुह्वामष्टावुपभृति चतुर्ध्रुवायाम् ...{Loading}...

चतुर्जुह्वामष्टावुपभृति चतुर्ध्रुवायाम् ४

05 पशुकामस्य वा पञ्चगृहीतन् ...{Loading}...

पशुकामस्य वा पञ्चगृहीतं ध्रुवायां यथाप्रकृतीतरयोः ५

06 दशगृहीतमुपभृति पञ्चगृहीतमितरयोरित्येके ...{Loading}...

दशगृहीतमुपभृति पञ्चगृहीतमितरयोरित्येके ६

07 भूयो जुह्वामल्पीय उपभृति ...{Loading}...

भूयो जुह्वामल्पीय उपभृति भूयिष्ठं ध्रुवायाम् ७

08 शुक्रन् त्वा शुक्रायामिति ...{Loading}...

शुक्रं त्वा शुक्रायामिति त्रिभिः पञ्चानां त्वा वातानामिति च द्वाभ्यां जुह्वां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम् ८

09 पञ्चानान् त्वा दिशाम् ...{Loading}...

पञ्चानां त्वा दिशां पञ्चानां त्वा पञ्चजनानां पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामीति चरोस्त्वा पञ्चबिलस्येति च पञ्चभिरुपभृत्यष्टकृत्वो दशकृत्वो वा प्रतिमन्त्रम् ९

10 शेषेण ध्रुवायाञ् चतुः ...{Loading}...

शेषेण ध्रुवायां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम् १०

11 नोत्कर आज्यानि सादयति ...{Loading}...

नोत्कर आज्यानि सादयति ११

12 नान्तर्वेदि गृहीतस्य प्रतीचीनं ...{Loading}...

नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति १२

इति सप्तमी कण्डिका इति द्वितीयः पटलः


  1. Cf. TB III.3.4.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I.11.9; see also TS I.1.10.p. ↩︎ ↩︎ ↩︎ ↩︎

  3. Five times, if the sacrificer is a Pañcāvattin (See II. 18.1. ↩︎ ↩︎ ↩︎