०५

01 दिवः शिल्पमवततम् पृथिव्याः ...{Loading}...

दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयं सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यग्नौ प्रहरति यस्मिन्प्रतितपत्युत्करे वा न्यस्यति १

02 आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वज्ञुमासीनाम् ...{Loading}...

आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं सन्नह्यति तिष्ठन्तीं वा २

03 वाचयतीत्येके ...{Loading}...

वाचयतीत्येके ३

04 मौञ्जेन दाम्नान्यतरतः पाशेन ...{Loading}...

मौञ्जेन दाम्नान्यतरतः पाशेन योक्तेण वाभ्यन्तरं वाससः ४

05 न वासोऽभिसन्नह्यति अभिसन्नह्यतीत्येके ...{Loading}...

न वासोऽभिसन्नह्यति । अभिसन्नह्यतीत्येके ५

06 उत्तरेण नाभिन् निष्टर्क्यङ् ...{Loading}...

उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थाप्योपोत्थायाग्ने गृहपत उप मा ह्वयस्वेति गार्हपत्यमुपतिष्ठते ६

07 देवानाम् पत्नीरुप मा ...{Loading}...

देवानां पत्नीरुप मा ह्वयध्वं पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिंसीरिति देवपत्नीरुपतिष्ठते ७

08 तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति ...{Loading}...

तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति दक्षिणत उदीच्युपविशति ८

09 इन्द्राणीवाविधबा भूयासमदितिरिव सुपुत्रा ...{Loading}...

इन्द्राणीवाविधबा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति ९

10 युक्ता मे यज्ञमन्वासाता ...{Loading}...

युक्ता मे यज्ञमन्वासाता इति यजमानः सम्प्रेष्यति १०

11 बह्वाज्याभ्यान् दर्शपूर्णमासाभ्यां यजत ...{Loading}...

बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते ११

इति पञ्चमी कण्डिका


  1. TB III. 3.2.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See II.4.2. ↩︎

  3. TB III.3.2.3 allows both the alternatives. ↩︎