०४

01 पत्नीसन्नहनमेके पूर्वं समामनन्ति …{Loading}…

पत्नीसन्नहनमेके पूर्वं समामनन्ति स्रुक्सम्मार्जनमेके १

02 घृताचीरेताग्निर्वो ह्वयति देवयज्याया …{Loading}…

घृताचीरेताग्निर्वो ह्वयति देवयज्याया इति स्रुच आदाय प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्यानिशिता स्थ सपत्नक्षयणीरित्यभिमन्त्र्य वेदाग्राणि प्रतिविभज्याप्रतिविभज्य वा तैः स्रुचः सम्मार्ष्टि प्राचीरुदीचीर्वोत्ताना धारयमाणः २

03 उपभृतमेवोदीचीमित्येके …{Loading}…

उपभृतमेवोदीचीमित्येके ३

04 गोष्ठम् मा निर्मृक्षमिति …{Loading}…

“गोष्ठं मा निर्मृक्षम्” इति
स्रुवम् अग्रैर् अन्तरतो ऽभ्याकारं+++(=पुनः पुनः)+++ सर्वतो बिलम् अभिसमाहारम् +++(यथा पूर्वम् प्रत्य् एव शोधनम्)+++ ,
मूलैर् दण्डम् ४

05 वाचम् प्राणमिति जुहूमग्रैरन्तरतोऽभ्याकारम् …{Loading}…

“वाचं प्राणम्” इति
जुहूम् अग्रैर् अन्तरतो ऽभ्याकारं+++(=पुनः पुनः)+++ प्राचीं,
मध्यैर् बाह्यतः प्रतीचीम्,
मूलैर् दण्डम् ५

06 चक्षुः श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतोऽभ्याकारम् प्रतीचीम् …{Loading}…

चक्षुः श्रोत्रमित्युपभृतमुदीचीमग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीम् । मूलैर्दण्डम् ६

07 प्रजां योनिमिति यथा …{Loading}…

प्रजां योनिमिति यथा स्रुवमेवं ध्रुवाम् ७

08 रूपं वर्णम् पशूनाम् …{Loading}…

रूपं वर्णं पशूनां मा निर्मृक्षं वाजि त्वा सपत्नसाहं सम्मार्ज्मीति प्राशित्रहरणं तूष्णीं वा ८

09 न सम्मृष्टान्यसम्मृष्टैः संस्पर्शयति …{Loading}…

न सम्मृष्टान्यसम्मृष्टैः संस्पर्शयति ९

10 अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीति …{Loading}…

अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीति पुनः प्रतितप्य प्रोक्ष्याग्रेणोत्करं दर्भेषु सादयति जघनेन वा १०

11 स्रुक्सम्मार्जनान्यद्भिः संस्पर्श्य …{Loading}…

स्रुक्सम्मार्जनान्यद्भिः संस्पर्श्य ११

इति चतुर्थी कण्डिका


  1. It is not known who are these ritualists who hold this view. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.10.a-b. ↩︎ ↩︎ ↩︎ ↩︎

  3. MS IV.1.12; KS I.10. ↩︎