०३

01 प्राञ्चौ वेद्यंसावुन्नयति प्रतीची ...{Loading}...

प्राञ्चौ वेद्यंसावुन्नयति प्रतीची श्रोणी १

02 पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये ...{Loading}...

पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये सन्नततरा भवति २

03 यन्मूलमतिशेते स्फ्येन तच्छिनत्ति ...{Loading}...

यन्मूलमतिशेते स्फ्येन तच्छिनत्ति न नखेन ३

04 यत्पुरीषमतिशेत उत्करे तन्निवपति ...{Loading}...

यत्पुरीषमतिशेत उत्करे तन्निवपति ४

05 आहार्यपुरीषाम् पशुकामस्य कुर्यात् ...{Loading}...

आहार्यपुरीषां पशुकामस्य कुर्यात् ५

06 यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण ...{Loading}...

यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण खनेत् ६

07 ब्रह्मन्नुत्तरम् म्परिग्राहम् परिग्रहीष्यामीति ...{Loading}...

ब्रह्मन्नुत्तरं म्परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य स्फ्येन वेदिं परिगृह्णात्यृतमसीति दक्षिणतः । ऋतसदनमसीति पश्चात् । ऋतश्रीरसीत्युत्तरतः ७

08 विपरीतौ परिग्राहावेके समामनन्ति ...{Loading}...

विपरीतौ परिग्राहावेके समामनन्ति ८

09 धा असि स्वधा ...{Loading}...

धा असि स्वधा असीति प्रतीचीं वेदिं स्फ्येन योयुप्यते ९

10 उदादाय पृथिवीञ् जीरदानुरिति ...{Loading}...

उदादाय पृथिवीं जीरदानुरिति वेदिमनुवीक्षते १०

11 पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यन् ...{Loading}...

पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च सम्मृड्ढि पत्नीं सन्नह्याज्येनोदेहीति ११

12 अपि वा न ...{Loading}...

अपि वा न सम्प्रैषं ब्रूयात् १२

13 प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन ...{Loading}...

प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यमसंस्पृष्टा उपनिनीय स्फ्यस्य वर्त्मन्सादयत्यृतसधस्थेति द्वेष्यं मनसा ध्यायन् १३

14 शतभृष्टिरसि वानस्पत्यो द्विषतो ...{Loading}...

शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति द्वेष्यं मनसा ध्यायन् १४

15 नानवनिज्य हस्तौ पात्राणि ...{Loading}...

नानवनिज्य हस्तौ पात्राणि पराहन्ति १५

16 हस्ताववनिज्य स्फ्यम् प्रक्षालयत्यग्रमप्रतिमृशन् ...{Loading}...

हस्ताववनिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् १६

17 उत्तरेणाहवनीयम् प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरम् ...{Loading}...

उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरं बर्हिः १७

इति तृतीया कण्डिका इति प्रथमः पटलः


  1. For this Sūtra cf. TB III.2.9.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The north-eastern and south-eastern corners. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. The north-western and south-western corners. ↩︎ ↩︎ ↩︎ ↩︎

  4. See II.3.17. ↩︎ ↩︎

  5. See II.4.2ff. ↩︎ ↩︎

  6. See II.5.2ff. ↩︎

  7. See II.6.5. ↩︎