०२

01 अपाररुमदेवयजनम् पृथिव्या इति ...{Loading}...

अपाररुमदेवयजनं पृथिव्या इति द्वितीये प्रहरणोऽररुर्द्यां मा पप्तदिति तृतीये । अपहतोऽररुः पृथिव्यै देवयजन्या इति द्वितीयेऽपादानोऽपहतोऽररुः पृथिव्या अदेवयजन इति तृतीये १

02 अवबाढं रक्ष इति ...{Loading}...

अवबाढं रक्ष इति द्वितीये निवपन आग्नीध्रोऽभिगृह्णात्यवबाढोऽघशंस इति तृतीयेऽवबाढा यातुधाना इति चतुर्थे २

03 द्रप्सस्ते द्याम् मा ...{Loading}...

द्रप्सस्ते द्यां मा स्कानिति खनिं प्रत्यवेक्ष्य स्फ्येन वेदिं परिगृह्णाति वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा इति पश्चादादित्या इत्युत्तरतः ३

04 अपाररुमदेवयजनम् पृथिव्या अदेवयजनो ...{Loading}...

अपाररुमदेवयजनं पृथिव्या अदेवयजनो जहीति स्फ्येनोत्तमां त्वचमुद्धन्ति ४

05 समुद्धतस्याग्नीध्र उत्करे त्रिर्निवपति ...{Loading}...

समुद्धतस्याग्नीध्र उत्करे त्रिर्निवपति ५

06 इमान् नराः कृणुत ...{Loading}...

इमां नराः कृणुत वेदिमेत देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पीषा यजमानं विशन्त्विति सम्प्रेष्यति ६

07 देवस्य सवितुः सव ...{Loading}...

देवस्य सवितुः सव इति खनति द्व्यङ्गुलां त्र्यङ्गुलां चतुरङ्गुलां यावत्पार्ष्ण्याः शुक्लं तावतीं पृथमात्रीं रथवर्त्ममात्रीं सीतामात्रीं प्रादेशमात्रीं वा पुरीषवतीम् ७

08 नैता मात्रा अतिखनति ...{Loading}...

नैता मात्रा अतिखनति ८

09 दक्षिणतो वर्षीयसीम् प्राक्प्रवणाम् ...{Loading}...

दक्षिणतो वर्षीयसीं प्राक्प्रवणां प्रागुदक्प्रवणां वा ९

इति द्वितीया कण्डिका


  1. KS I.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. KS I.9.
    1b. (The formula to be recited) at the time of the second carrying away (should be) apahatorarvḥ pr̥thivyai devayajanyai3 and at the (time of the) third (carrying should be) apahato’raruḥ prthivyā adevayajane.4 ↩︎ ↩︎ ↩︎

  3. TS I.1.9.1. ↩︎

  4. TS I.1.9.n. ↩︎

  5. This is the first tracing (purva parigrāha). For the second tracing (uttara parigraha) sce II.3.7. ↩︎