०१

01 देवस्य त्वा सवितुः ...{Loading}...

देवस्य त्वा सवितुः प्रसव इति स्फ्यमादायेन्द्रस्य बाहुरसि दक्षिण इत्यभिमन्त्र्य हरस्ते मा प्रतिगामिति दर्भेण सम्मृज्यापरेणाहवनीयं यजमानमात्रीमपरिमितां वा प्राचीं वेदिं करोति १

02 यथासन्नानि हवींषि सम्भवेदेवन् ...{Loading}...

यथासन्नानि हवींषि सम्भवेदेवं तिरश्चीम् २

03 वेदेन वेदिं विविदुः ...{Loading}...

वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी सार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं त्रिः सम्मार्ष्ट्युपरिष्टाद्वा ३

04 पूर्वार्धाद्वेदेर्वितृतीयदेशात्स्तम्बयजुर्हरति ...{Loading}...

पूर्वार्धाद्वेदेर्वितृतीयदेशात्स्तम्बयजुर्हरति ४

05 पृथिव्यै वर्मासीति तत्रोदगग्रम् ...{Loading}...

पृथिव्यै वर्मासीति तत्रोदगग्रं प्रागग्रं वा दर्भं निधाय पृथिवि देवयजनीति तस्मिन्स्फ्येन प्रहृत्यापहतोऽररुः पृथिव्या इति स्फ्येन सतृणान्पांसूनपादाय व्रजं गच्छ गोस्थानमिति हरति । वर्षतु ते द्यौरिति वेदिं प्रत्यवेक्षते यजमानं वा ५

06 बधान देव सवितरित्युत्तरतः ...{Loading}...

बधान देव सवितरित्युत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपदे ऽपरिमिते वा वेदेर्निवपति ६

07 स उत्करः ...{Loading}...

स उत्करः ७

08 अररुस्ते दिवम् मा ...{Loading}...

अररुस्ते दिवं मा स्कानिति न्युप्तमाग्नीध्रो ऽञ्जलिनाभिगृह्णाति ८

09 एवन् द्वितीयन् तृतीयञ् ...{Loading}...

एवं द्वितीयं तृतीयं च हरति ९

10 तूष्णीञ् चतुर्थं हरन्सर्वन् ...{Loading}...

तूष्णीं चतुर्थं हरन्सर्वं दर्भशेषं हरति १०

इति प्रथमा कण्डिका


  1. TS I.1.9.q. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.9.6. ↩︎ ↩︎ ↩︎

  3. This formula is found only here. ↩︎ ↩︎ ↩︎

  4. TS 1.1.9.e. ↩︎

  5. TS 1.1.9.g. ↩︎