२४

01 प्रक्षालितायाम् पात्र्यान् निष्टप्तोपवातायाम् ...{Loading}...

प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्रवत्यां पिष्टानि संवपति देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं संवपामीति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम् १

02 संवपन्वाचं यच्छति तामभिवासयन्विसृजते ...{Loading}...

संवपन्वाचं यच्छति तामभिवासयन्विसृजते २

03 प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिः संयौति ...{Loading}...

प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिः संयौति ३

04 अन्या वा यजुषोत्पूय ...{Loading}...

अन्या वा यजुषोत्पूय यदि प्रणीता नाधिगच्छेत् ४

05 स्रुवेण प्रणीताभ्य आदाय ...{Loading}...

स्रुवेण प्रणीताभ्य आदाय वेदेनोपयम्य समापो अद्भिरग्मतेति पिष्टेष्वानीयाद्भिः परि प्रजाता इति तप्ताभिरनुपरिप्लाव्य जनयत्यै त्वा संयौमीति संयुत्य मखस्य शिरोऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य समौ पिण्डौ कृत्वा यथादेवतमभिमृशतीदमग्नेरित्याग्नेयम् । इदमग्नीषोमयोरित्यग्नीषोमीयम् ५

06 इदमहं सेनाया अभीत्वर्यै ...{Loading}...

इदमहं सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन कपालेभ्योऽङ्गारानपोह्य घर्मोऽसि विश्वायुरित्याग्नेयं पुरोडाशमष्टासु कपालेष्वधिश्रयति ६

07 एवमुत्तरमुत्तरेषु ...{Loading}...

एवमुत्तरमुत्तरेषु ७

08 एवमनुपूर्वाण्येवैष्वत ऊर्ध्वङ् कर्माणि ...{Loading}...

एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ८

इति चतुर्विंशी कण्डिका


  1. TS I.1.8.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. From the balck-antelope’s skin. See I.21.7. ↩︎ ↩︎ ↩︎ ↩︎

  3. For Pātrī see I.15.7. ↩︎ ↩︎ ↩︎

  4. TS I.1.8.e. ↩︎

  5. TS I.1.8.g. ↩︎

  6. This formula is not found in any Samhita-text. ↩︎