२२

01 आहवनीये गार्हपत्ये वा ...{Loading}...

आहवनीये गार्हपत्ये वा हवींषि श्रपयति १

02 धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय ...{Loading}...

धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणिं दहाहिरसि बुध्निय इत्यभिमन्त्र्यापाग्नेऽग्निमामादं जहीति गार्हपत्यात्प्रत्यञ्चावङ्गारौ निर्वर्त्य निष्क्रव्यादं सेधेति तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्या देवयजं वहेति दक्षिणमवस्थाप्य ध्रुवमसीति तस्मिन्नध्यमं पुरोडाशकपालमुपदधाति २

03 निर्दग्धं रक्षो निर्दग्धा ...{Loading}...

निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्याधाय धर्त्रमसीति पूर्वं द्वितीयं संस्पृष्टम् । धरुणमसीति पूर्वं तृतीयम् । चिदसि विश्वासु दिक्षु सीदेति मध्यमाद्दक्षिणम् । परिचिदसि विश्वासु दिक्षु सीदेति मध्यमादुत्तरम् ३

04 यथायोगमितराणि ...{Loading}...

यथायोगमितराणि ४

इति द्वाविंशी कण्डिका


  1. For the Sāṁnāyya, however, only Gārhapatya is used. See I.12.1. ↩︎ ↩︎ ↩︎

  2. Only the latter part of the formula is found in TS I.3.3.q. ↩︎ ↩︎

  3. TS I.1.7.b.a. ↩︎ ↩︎

  4. within the Gārhapatya-hearth only. ↩︎ ↩︎

  5. TS I.1.7.b.b. ↩︎ ↩︎

  6. TS I.1.7.b.c. ↩︎

  7. There are two breads one for Agni and the other for Agni-soma or Indra-Agni. ↩︎

  8. TS I.1.7.d. ↩︎