२१

01 देवेभ्यः शुन्धध्वन् देवेभ्यः ...{Loading}...

“देवेभ्यः शुन्धध्वं! देवेभ्यः शुन्ध्यध्वं! देवेभ्यः शुम्भध्वमि"ति सुफलीकृतान् करोति । तूष्णीं वा १

02 प्रक्षाल्य तुण्डुलांस्त्रिष्फलीक्रियमाणानां यो ...{Loading}...

प्रक्षाल्य तुण्डुलांस् त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । “रक्षसां भागधेयमापस् तत् प्रवहतादित” इत्युत्करे त्रिर्निनयति २

03 अत्र कृष्णाजिनस्यादानादि प्रागधिवर्तनात्कृत्वा ...{Loading}...

अत्र कृष्णाजिनस्यादानादि प्रागधिवर्तनात् कृत्वा
“दिव स्कम्भनिरसी"ति कृष्णाजिन उदीचीन-कुम्बां+++(=स्थविष्ठम् अङ्गम्)+++ शम्यां निधाय
“धिषणासि पर्वत्ये"ति शम्यायां दृषदम् अत्याधाय
“धिषणासि पार्वतेयी"ति दृषद्युपलामत्यादधाति ३

04 पूर्ववदनुत्सर्गः ...{Loading}...

पूर्ववद् +++(=उलूखलाधानवत्)+++ अनुत्सर्गः ४

05 अंशव स्थ मधुमन्त ...{Loading}...

“अंशव स्थ! मधुमन्त” इति तण्डुलान् अभिमन्त्र्य
“देवस्य त्वे"त्यनुद्रुत्य
“अग्नये जुष्टमधिवपामी"ति यथादेवतं +++(मन्त्रं परिवर्तयन्)+++ दृषदि तण्डुलान् अधिवपति - त्रिर्यजुषा तूष्णीं चतुर्थम् ५

06 प्राणाय त्वेति प्राचीमुपलाम् ...{Loading}...

“प्राणाय त्वे"ति प्राचीमुपलां प्रोहत्य्
“अपानाय त्वे"ति प्रतीचीं
“व्यानाय त्वे"ति मध्यदेशे व्यवधारयति
“प्राणाय त्वापानाय त्वा व्यानाय त्वे"ति संततं पिनष्टि ६

07 दीर्घामनु प्रसितिमायुषे धामिति ...{Loading}...

“दीर्घामनु प्रसितिमायुषे धामि"ति प्राचीम् अन्ततो ऽनुप्रोह्य
“देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वि"ति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वा
“अदब्धेन वश् चक्षुषावेक्ष” इत्यवेक्ष्य
“असंवपन्ती पिंषाणूनि कुरुतादि"ति संप्रेष्यति ७

08 दासी पिनष्टि पत्नी ...{Loading}...

दासी पिनष्टि पत्नी वा ८

09 अपि वा पत्न्यवहन्ति ...{Loading}...

अपि वा पत्न्यवहन्ति शूद्रा पिनष्टि ९

इत्येकविंशी कण्डिका इति षष्टः पटलः


  1. TB III.7.6.20. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.6.c. ↩︎ ↩︎ ↩︎

  3. TS I.1.6.d. ↩︎ ↩︎ ↩︎

  4. TS I.1.6.e. ↩︎ ↩︎