२०

01 उच्चैः समाहन्तवा इति ...{Loading}...

उच्चैः “समाहन्तवा+++(वै = समाहन्तव्यम्)+++” इति संप्रेष्यति १

02 कुटरुरसि मधुजिह्व इत्याग्नीध्रोऽश्मानमादायेषमावदोर्जमावदेति ...{Loading}...

“कुटरुरसि मधुजिह्व” इत्याग्नीध्रो ऽश्मानम् आदाय
“इषमावदोर्जमावदे"ति दृषदुपले समाहन्ति २

03 द्विर्दृषदि सकृदुपलायान् त्रिः ...{Loading}...

द्विर् दृषदि सकृदुपलायां त्रिः +++(इति)+++ संचारयन् नवकृत्वः संपादयति ३

04 सावित्रेण वा शम्यामादाय ...{Loading}...

सावित्रेण+++(=“देवस्य त्वा …”)+++ वा शम्याम्+++(=दण्डविशेषम्)+++ आदाय तया समाहन्ति ४

05 वर्षवृद्धमसीति पुरस्ताच्छूर्पमुपोहत्युत्तरतो वा ...{Loading}...

“वर्षवृद्धमसी"ति +++(उलूखलस्य)+++ पुरस्ताच् छूर्पम् उपोहत्य् उत्तरतो वा ५

06 वर्षवृद्धा स्थेत्यभिमन्त्र्य प्रति ...{Loading}...

“वर्षवृद्धा स्थे"त्यभिमन्त्र्य
“प्रति त्वा वर्षवृद्धं वेत्त्वि"त्य् उद्वपति ६

07 परापूतं रक्षः परापूता ...{Loading}...

“परापूतं रक्षः, परापूता अरातय” इत्य् उत्करे परापुनाति ७

08 प्रविद्धं रक्षः पराध्माता ...{Loading}...

“प्रविद्धं रक्षः, पराध्माता अमित्रा” इति तुषान् प्रस्कन्दतो ऽनुमन्त्रयते ८

09 मध्यमे पुरोडाशकपाले तुषानोप्य ...{Loading}...

मध्यमे पुरोडाशकपाले तुषान् ओप्य “रक्षसां भागो ऽसी"त्यधस्तात् कृष्णाजिनस्योपवपत्य् उत्तरमपरम् अवान्तरदेशम् ९

10 हस्तेनोपवपतीति बृह्वृचब्राह्मणम् ...{Loading}...

“हस्तेनोपवपती"ति बृह्वृचब्राह्मणम् १०

11 अद्भिः कपालं संस्पर्श्य ...{Loading}...

अद्भिः कपालं संस्पर्श्य
प्रज्ञातं +++(रक्षःकपालम्?)+++ निधायाप उपस्पृश्य +++(रक्षस्कर्मत्वात्)+++
“वायुर्वो वि विनक्त्विति” विविच्य
“देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वि"ति पात्र्यां तण्डुलान् प्रस्कन्दयित्वा
“अदब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय वर्चसे!
सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास” इत्यवेक्ष्य “त्रिष्फलीकर्तवा+++(=त्रिः फलीकरणीयम्!)+++” इति संप्रेष्यति ११

12 या यजमानस्य पत्नी ...{Loading}...

या यजमानस्य पत्नी साभिद्रुत्यावहन्ति १२

13 यो वा कश्चिदविद्यमानायाम् ...{Loading}...

यो वा कश्चिदविद्यमानायाम् १३

इति विंशी कण्डिका


  1. Cf. TB III.2.5.9 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.5.o, p,q. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. TS I.1.10.k.b. ↩︎

  4. Cf. TB III.2.5.11. ↩︎