१९

01 सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य ...{Loading}...

सशूकायाम् अग्निहोत्रहवण्याम् अप आनीय
पूर्ववद् +++(सान्नाय्यवत्)+++ उत्पूयाभिमन्त्र्य
“ब्रह्मन् प्रोक्षिष्यामीति” ब्रह्माणमामन्त्र्य
“देवस्य त्वे"त्यनुद्रुत्य
“अग्नये वो जुष्टं प्रोक्षामी"ति यथादेवतं +++(ऊहया परिवर्त्य मन्त्रं)+++ हविस् त्रिः प्रोक्षन्
नाग्निमभिप्रोक्षेत् १

02 यन् द्विष्यात्तस्याभिप्रोक्षेत् ...{Loading}...

यं द्विष्यात्तस्याभिप्रोक्षेत् २

03 उत्तानानि पात्राणि पर्यावर्त्य ...{Loading}...

उत्तानानि पात्राणि पर्यावर्त्य
“शुन्धध्वं दैव्याय कर्मण” इति त्रिः प्रोक्ष्य
प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय

हविष्चीर्णनम्

“देवस्य त्वा सवितुः प्रसव” इति कृष्णाजिनम् आदाय
“अवधूतं रक्षो, ऽवधूता अरातय” इत्युत्करे+++(=अवकरराशौ वेदिस्थायां)+++ त्रिरवधूनोत्य् ऊर्ध्वग्रीवं +++(कृष्णाजिनम्)+++ बहिष्टाद् विशसनम्+++(=विच्छिन्नभागः कृष्णाजिनस्य)+++ ३

04 अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशे वा ...{Loading}...

“अदित्यास् त्वग् असी"त्युत्तरेण गार्हपत्यम् उत्करदेशे वा प्रतीचीनग्रीवम् उत्तरलोमोपस्तृणाति ४

05 पुरस्तात्प्रतीचीम् भसदमुपसमस्यति ...{Loading}...

पुरस्तात् +++(भागेन +अधस्तात्)+++ प्रतीचीं +++(गमयित्वा)+++ भसदम्+++(=कटिप्रदेशं)+++ उपसमस्यति ५

06 अनुत्सृजन्कृष्णाजिनमधिषवणमसीति तस्मिन्नुलूखलमधिवर्तयति ...{Loading}...

अनुत्सृजन् कृष्णाजिनम् “अधिषवणमसी"ति तस्मिन्न् उलूखलम् अधिवर्तयति ६

07 अनुत्सृजन्नुलूखलमग्नेस्तनूरसीति तस्मिन्हविरावपति त्रिर्यजुषा ...{Loading}...

अनुत्सृजन्न् उलूखलम् “अग्नेस् तनूरसी"ति तस्मिन् हविरावपति - त्रिर् यजुषा, तूष्णीं चतुर्थम् ७

08 अद्रिरसि वानस्पत्य इति ...{Loading}...

“अद्रिर् असि वानस्पत्य” इति मुसलम् आदाय
“हविष्कृद् एही"ति त्रिर् अवहन्ति ।
अनवघ्नन् वा हविष्कृतं ह्वयति ८

09 हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति ...{Loading}...

“हविष्कृदेही"ति ब्राह्मणस्य
“हविष्कृदागही"ति राजन्यस्य
“हविष्कृदाद्रवे"ति वैश्यस्य
“हविष्कृदाधावे"ति शूद्रस्य +++(निषादस्थपतेर् यजमानस्य)+++ ९

10 प्रथमं वा सर्वेषाम् ...{Loading}...

प्रथमं वा सर्वेषाम् १०

11 अव रक्षो दिवः ...{Loading}...

“अव रक्षो दिवः सपत्नं वध्यासम्” इत्यवहन्ति ११

इत्येकोनविंशी कण्डिका


  1. The ladle is not yet cleansed. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I.11.9-10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See III.19.3. ↩︎ ↩︎ ↩︎

  4. TS I.1.5.e. ↩︎

  5. Thus he does not hold the pot used at the time of sprinkling upon the fire. ↩︎ ↩︎