१८

01 एवमुत्तरं यथादेवतमग्नीषोमाभ्यामिति पौर्णमास्याम् ...{Loading}...

एवमुत्तरं +++(निर्वपनम्)+++ यथादेवतम् +++(यथा -)+++ अग्नीषोमाभ्याम् इति पौर्णमास्याम् +++(असोमयाजिनो ऽपि)+++ । इन्द्राग्निभ्याम् इत्यमावास्यायाम् +++(संनयतः)+++१

02 चतुरो मुष्टिन्निरुप्य निरुप्तेष्वन्वोप्येदन् ...{Loading}...

चतुरो मुष्टीन् निरुप्य
निरुप्तेष्व् अन्वोप्य
“इदं देवानामि"ति निरुप्तान् अभिमृशति ।
“इदमु नः सहे"त्यवशिष्टान् २

03 स्फात्यै त्वा नारात्या ...{Loading}...

“स्फात्यै त्वा नारात्या” इति निरुप्तान् एवाभिमन्त्र्य
“इदमहं निर्वरुणस्य पाशादि"त्युपनिष्क्रम्य
“स्वरभिव्यख्यमि"ति प्राङ् प्रेक्षते ३

04 सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते ...{Loading}...

“सुवरभिविख्येषमि"ति सर्वं विहारम् अनुवीक्षते ।
“वैश्वानरं ज्योतिरि"त्याहवनीयं
“स्वाहा द्यावापृथिवीभ्यामि"ति स्कन्नान्+++(पतितं निर्वापं?)+++ अभिमन्त्र्य
“दृंहन्तां दुर्या द्यावापृथिव्योरि"ति प्रत्यवरोह्य+++(?)+++
“उर्वन्तरिक्षमन्विही"ति हरति ४

05 अदित्यास्त्वोपस्थे सादयामीत्यपरेण गार्हपत्यं ...{Loading}...

“अदित्यास् त्वोपस्थे सादयामी"त्यपरेण गार्हपत्यं यथादेवतम् उपसादयति +++(यथा - “अग्ने हव्यं रक्षक्ष्व! अग्निषोमौ हव्यं रक्षेथाम्!”)+++५

06 आहवनीयं वा यद्याहवनीये ...{Loading}...

आहवनीयं वा यद्याहवनीये श्रपयति ६

07 यदि पात्र्या निर्वपेद्दक्षिणतः ...{Loading}...

यदि पात्र्या निर्वपेद् दक्षिणतः स्फ्यम् उपधाय तस्यां सर्वाञ्छकटमन्त्राञ्जपेत् ७

इत्यष्टादशी कण्डिका इति पञ्चमः पटलः


  1. TS I.1.4.n.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.4.n.b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. KS XXXI.3. ↩︎

  4. Cf. SB I.1.2.22. ↩︎

  5. TS I.1.4.r. ↩︎