१७

01 वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमादत्ते ...{Loading}...

“वानस्पत्यासि, दक्षाय त्वे"त्यग्निहोत्रहवणीम् आदत्ते । “वेषाय त्वे"ति शूर्पम् १ 1.17.1

02 प्रत्युष्टं रक्षः प्रत्युष्टा ...{Loading}...

“प्रत्युष्टं रक्षः, प्रत्युष्टा अरातय” इत्याहवनीये गार्हपत्ये वा प्रतितप्य
“यजमान! हविर् निर्वप्स्यामी"त्यामन्त्रयते २

03 प्रवसत्यग्ने हविर्निर्वप्स्यामीति ...{Loading}...

+++(यजमाने)+++ प्रवसत्य् “अग्ने! हविर् निर्वप्स्यामी"ति ३

04 उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ...{Loading}...

उर्वन्तरिक्षम् अन्विहीति शकटायाभिप्रव्रजति ४

05 अपरेण गार्हपत्यम् प्रागीषमुदगीषं ...{Loading}...

अपरेण गार्हपत्यं प्रागीषमुदगीषं+++(=युगशकटयोः सम्बन्धकं दारु)+++ वा +++(मुक्तानडुत्कम् अपि)+++ नद्धयुगं शकटमवस्थितं भवति व्रीहिमद् यवमद् वा ५

06 धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां ...{Loading}...

“धूरसीति” दक्षिणां युगधुरम् अभिमृशत्युत्तरां वा ६

07 त्वन् देवानामसि सस्नितममित्युत्तरामीषामालभ्य ...{Loading}...

“त्वं देवानामसि सस्नितममि"त्युत्तराम् ईषाम्+++(=युगशकटयोः सम्बन्धकं दारु)+++ आलभ्य जपति ७

08 विष्णुस्त्वाक्रंस्तेति सव्ये चक्रे ...{Loading}...

“विष्णुस् त्वा ऽऽक्रंस्ते"ति सव्ये चक्रे दक्षिणं पादम् अत्याधाय
“आहुतमसि हविर्धानमि"त्यारोहति ८

09 उरु वातायेति परीणाहमपच्छाद्य ...{Loading}...

“उरु वाताये"ति परीणाहम्+++(=आवरणम्)+++ अपच्छाद्य
“मित्रस्य त्वा चक्षुषा प्रेक्ष” इति पुरोडाशीयान् प्रेक्षते ९

10 निरस्तं रक्षो निरस्तोऽघशंस ...{Loading}...

“निरस्तं रक्षो, निरस्तोऽघशंस” इति यदन्यत् पुरोडाशीयेभ्यस् तन्निरस्य
“उर्जाय वः पयो मयि धेही"त्यभिमन्त्र्य
दशहोतारं+++(=मन्त्रविशेषं)+++ व्याख्याय
शूर्पे पवित्रे निधाय
तस्मिन्न् अग्निहोत्रहवण्या हवींषि निर्वपति+++(=देवतार्थेन पृथक् स्थापयति)+++, तया वा पवित्रवत्या +++(इति अग्निहोत्रहवण्याम् पवित्रनिधानविकल्पः)+++ १०

11 व्रीहीन्यवान्वा ...{Loading}...

व्रीहीन्यवान्वा ११

12 यच्छन्ताम् पञ्चेति मुष्टिङ् ...{Loading}...

“यच्छन्तां पञ्चे"ति मुष्टिं गृहीत्वा
स्रुचि मुष्टिमोप्य
“देवस्य त्वे"त्यनुद्रुत्य
“अग्नये जुष्टं निर्वपामी"ति त्रिर् यजुषा,
तूष्णीं चतुर्थम् +++(निर्वपति)+++१२

इति सप्तदशी कण्डिका


  1. MS, KS. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.4.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. For the answer of the sacrificer see IV.4.4. ↩︎ ↩︎