१६

01 अत्र पूर्ववत्पवित्रे करोति ...{Loading}...

अत्र पूर्ववत्+++(=सांन्नायवत्)+++ पवित्रे करोति यदि न संनयति १

02 सन्नयतस्तु ते विभवतः ...{Loading}...

संनयतस्तु ते विभवतः २

03 वानस्पत्योऽसि देवेभ्यः शुन्धस्वेति ...{Loading}...

“वानस्पत्योऽसि देवेभ्यः शुन्धस्वे"ति प्रणीताप्रणयनं चमसम् अद्भिः परिक्षालयति तूष्णीं कंसं मृन्मयं च ।
कंसेन प्रणयेद् ब्रह्मवर्चसकामस्य मृन्मयेन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य ।

अपरेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय
तस्मिन् “को वो गृह्णाति स वो गृह्णातु! कस्मै वो गृह्णामि तस्मै वो गृह्णामि पोषाय व” इत्यप आनयति ३

04 अपो गृह्णन्ग्रहीष्यंश्च पृथिवीम् ...{Loading}...

अपो गृह्णन् ग्रहीष्यंश् च पृथिवीं मनसा ध्यायति ४

05 उपबिलञ् चमसम् पूरयित्वा ...{Loading}...

उपबिलं चमसं पूरयित्वा प्रोक्षणीवद् उत्पूय
अभिमन्त्र्य “ब्रह्मन्न् अपः प्रणेष्यामि, यजमान वाचं यच्छे"ति संप्रेष्यति ५

06 सर्वत्र प्रसव उक्ते ...{Loading}...

सर्वत्र प्रसव+++(=अनुज्ञा, यथा “ॐ प्रणय!”)+++ उक्ते करोति ६

07 प्रणीयमानासु वाचं यच्छतोऽध्वर्युर्यजमानश्चा ...{Loading}...

प्रणीयमानासु वाचं यच्छतो ऽध्वर्युर् यजमानश्च +आहविष्कृतः ७

08 को वः प्रणयति ...{Loading}...

“को वः प्रणयति स वः प्रणयत्व्,
आपो देवीः प्रणयानि यज्ञं संसादयन्तु नः ।
इरं मदन्तीर् घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरि"ति {समं प्राणैर्}+++(=नासासमं)+++ धारयमाणः स्फेनोपसंगृह्य, +अविषिञ्चन् हरति ८

09 पृथिवीञ् च मनसा ...{Loading}...

पृथिवीं च मनसा ध्यायति ९

10 को वो युनक्ति ...{Loading}...

“को वो युनक्ति स वो युनक्त्वि"त्य् उत्तरेण +आहवनीयम् असंस्पृष्टा +++(यथा तथा)+++ दर्भेषु सादयति १०

11 नेङ्गयन्ति नेलयन्त्या संस्थातोर्दर्भैरभिच्छाद्य ...{Loading}...

नेङ्गयन्ति +++(=न कम्पयन्ति)+++ नेलयन्त्य् +++(=नान्यत्र नयन्ति)+++ आसंस्थातोर् दर्भैर् अभिच्छाद्य ११

12 संविशन्तान् दैवीर्विशः पात्राणि ...{Loading}...

“संविशन्तां दैवीर् विशः पात्राणि देवयज्याया” इति सपवित्रेण पाणिना पात्राणि संमृश्य १२

इति षोडशी कण्डिका