१५

01 उदित आदित्ये पौर्णमास्यास्तन्त्रम् ...{Loading}...

उदित आदित्ये पौर्णमास्यास् तन्त्रं प्रक्रमयति, प्रागुदयाद् अमावास्यायाः +++(अग्निहोत्रं तु यथाकालं तन्त्रमध्येऽपि।)+++१

02 चत्वार ऋत्विजः ...{Loading}...

चत्वार ऋत्विजः २

03 पूर्ववदग्नीन्परिस्तृणाति यद्यपरिस्त्रीर्णा भवन्ति ...{Loading}...

पूर्ववदग्नीन् परिस्तृणाति यद्यपरिस्तीर्णा भवन्ति ३

04 कर्मणे वान् देवेभ्यः ...{Loading}...

“कर्मणे वां देवेभ्यः शकेयमि"ति हस्ताव् अवनिज्य+++(=प्रक्षाल्य)+++
“यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्ये"ति गार्हपत्यात् प्रक्रम्य
सन्तताम् उलप+++(=शुष्क-बर्हिस्-तृण)+++राजीं स्तृणात्य् आहवनीयात् तूष्णीं दक्षिणामुत्तरां च ४

05 दक्षिणेनाहवनीयम् ब्रह्मयजमानयोरासने प्रकल्पयति ...{Loading}...

दक्षिणेनाहवनीयं ब्रह्मयजमानयोर् आसने प्रकल्पयति पूर्वं ब्रह्मणोऽपरं यजमानस्य ५

06 उत्तरेण गार्हपत्याहवनीयौ दर्भान्संस्तीर्य ...{Loading}...

उत्तरेण गार्हपत्याहवनीयौ दर्भान् संस्तीर्य
द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि +++(न ततोऽधिकं विकृतिष्व् अपि - क्रोडीकरणं यथापेक्षम् अस्तु)+++६

07 स्फ्यश्च कपालानि चेति ...{Loading}...

स्फ्यश्च कपालानि चेति, यथासमाम्नातम् अपराणि प्रयुज्य
स्रुवं, जुहूम्, उपभृतं+++(=वृत्ताकारकाष्ठपात्रम्)+++ ध्रुवां+++(=बृहत्तमां दर्वीं)+++, वेदं, पात्रीम्, आज्यस्थालीं, प्राशित्रहरणम्, इडापात्रं, प्रणीताप्रणयनम् इति पूर्वाणि ७

08 तान्युत्तरेणावशिष्टानि ...{Loading}...

तान्युत्तरेणावशिष्टानि ८

09 अन्वाहार्यस्थालीमश्मानमुपवेषम् प्रातर्दोहपात्राणीति ...{Loading}...

अन्वाहार्य+++(=ऋत्विग्दक्षिणा)+++स्थालीम् अश्मानम् उपवेषं प्रातर्दोहपात्राणीति ९

10 प्रणीताप्रणयनम् पात्रसंसादनात्पूर्वमेके समामनन्ति ...{Loading}...

प्रणीताप्रणयनं पात्रसंसादनात् पूर्वम् एके समामनन्ति ।

खादिरः स्रुवः पर्णमयी जुहूर् आश्वत्थ्य् उपभृद्, वैकङ्कती ध्रुवा+++(=बृहत्तमा दर्वी)+++ १०

11 एतेषां वा वृक्षाणामेकस्य ...{Loading}...

+++(अलाभपक्षे)+++ एतेषां वा वृक्षाणामेकस्य स्रुचः +++(स्रुचश्च सर्वाः)+++ कारयेत् ११

12 बाहुमात्र्योऽरत्निमात्र्यो वाग्राग्रास्त्वक्तोबिला हंसमुख्यः ...{Loading}...

बाहुमात्र्यो ऽरत्निमात्र्यो वाग्राग्रास् +++(=अग्रभागो मुखं यासान् ताः)+++ त्वक्तोबिला +++(=त्वग्भागे बिलं यासन् ताः)+++ हंसमुख्यः १२

13 स्फ्यः शम्या प्राशित्रहरणमिति ...{Loading}...

स्फ्यः शम्या+++(=दण्डविशेषः)+++ प्राशित्रहरणम्+++(=ब्रह्मण इडाभागो यत्र रक्ष्यते)+++ इति खादिराणि १३

14 वारणान्यहोमार्थानि भवन्ति ...{Loading}...

वारणान्य्+++(=वरणकृतानि, Crataeva Roxburghii)+++ अहोमार्थानि भवन्ति १४

इति पञ्चदशी कण्डिका


  1. viz. Hotr̥, Adhvaryu, Āgnidhra and Brahman. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I.14.17. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TB III. 2.4.1. ↩︎