१४

01 ओषधयः पूतिकाः क्वलास्तण्डुलाः ...{Loading}...

ओषधयः+++(=व्रीह्यादयः)+++ पूतिकाः+++(=लताविशेषाः)+++ क्वलास्+++(=बदरीफलानि)+++ तण्डुलाः पर्णवल्का+++(=पलाशशकलानि)+++ इत्यातञ्चनविकल्पाः १

02 उच्छेषणाभावे तण्डुलैरातञ्च्यात्तण्डुलाभाव ओषधीभिः ...{Loading}...

उच्छेषणाभावे तण्डुलैरातञ्च्यात्, तण्डुलाभाव ओषधीभिः २

03 आपो हविःषु जागृत ...{Loading}...

“आपो हविःषु जागृत
यथा देवेषु जाग्रथ ।
एवमस्मिन्यज्ञे यजमानाय जागृते"त्ययस्पात्रे दारुपात्रे वाप आनीय
“अदस्तम् असि, विष्णवे त्वा यज्ञायापि दधाम्यहम् ।
अद्भिर् अरिक्तेन पात्रेण याः पूताः परिशेरत” इति +++(=पात्रेण)+++ तेन+अपिदधाति ।
अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । “तिरः पवित्रमतिनीता आपो धारय मातिगुरि"ति यजमानो जपति ३

04 यदि मृन्मयेनापिदध्यात्तृणङ् काष्ठं ...{Loading}...

यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वा ऽपिधाने ऽनुप्रविध्येत् ४

05 विष्णो हव्यं रक्षस्वेत्यनधो ...{Loading}...

“विष्णो हव्यं रक्षस्वे"त्यनधो निदधाति ५

06 इमौ पर्णञ् च ...{Loading}...

“इमौ पर्णं च दर्भं च देवानां हव्यशोधनौ ।
प्रातर् वेषाय गोपाय विष्णो हव्यं हि रक्षसी"ति +++(पूर्वं)+++ प्रज्ञातं शाखापवित्रं निदधाति ६

07 तयैव शाखया दर्भैर्वा ...{Loading}...

तयैव शाखया दर्भैर् वा सायंदोहवत् प्रातर् दोहाय वत्सान् अपाकरोति ७

08 उपधाय कपालानि सायन्दोहवत्प्रातर्दोहन् ...{Loading}...

उपधाय कपालानि, सायंदोहवत् प्रातर्दोहं दोहयति ।
आतञ्चनापिधाने निधानं च निवर्तते ।

नासोमयाजी संनयेत्संनयेद्वा ८

09 नागतश्रीर्महन्द्रं यजेत त्रयो ...{Loading}...

नागतश्रीर्महेन्द्रं यजेत । त्रयो वै गतश्रिय +++(येन गता प्राप्ता श्रीः - वेद-शुश्रुवान्, वैशेषु ग्रामणी, राजन्य)+++ इत्युक्तम् +++(अन्ये त्विन्द्रम्। यथाकामं वर्षम् इन्द्रमिष्ट्वा पश्चाद् महेन्द्रं यजेरन्।)+++९

10 और्वो गौतमो भारद्वाजस्तेऽनन्तरं ...{Loading}...

और्वो गौतमो भारद्वाजस्, ते ऽनन्तरं सोमेज्याया महेन्द्रं यजेरन् +++(प्राक् तु नित्यमिन्द्रम् - नैतेषां संवत्सरादूर्ध्वम् महेन्द्रयागे ऽधिकारः।)+++१०

11 यो वा कश्चित् ...{Loading}...

यो वा कश्चित् +++(अनन्तरं सोमेज्यायाः)+++११

12 ततः सम्प्रेष्यति परिस्तृणीत ...{Loading}...

ततः +++(अध्वर्युरात्मानम्)+++ संप्रेष्यति +++(उच्चैर् एकश्रुत्या)+++
“परिस्तृणीत! परिधत्ताग्निं! परिहितोऽग्निर्यजमानं भुनक्तु ।
अपां रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु!
कामदुघा अमुत्रामुष्मिंल्लोक” इति १२

13 परिस्तरणीमेतामेके समामनन्ति ...{Loading}...

परिस्तरणीम् एताम् +++(ऋचम्)+++ एके समामनन्ति १३

14 उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन्परिस्तृणाति ...{Loading}...

उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन् परिस्तृणाति १४

15 उदगग्राः पश्चात्पुरस्ताच्च ...{Loading}...

उदगग्राः पश्चात्पुरस्ताच्च १५

16 एतत्कृत्वोपवसति ...{Loading}...

एतत् +++(=परिस्तरणम्)+++ कृत्वोपवसति १६

17 अग्न्यन्वाधानं वत्सापाकरणमिध्माबर्हिर्वेदो वेदिः ...{Loading}...

अग्न्यन्वाधानं वत्सापाकरणम् इध्माबर्हिर् वेदो+++(=दर्भमुष्टिनिर्माणम्)+++ वेदिः+++(=वेदिकर्म)+++, प्रागुत्तरात् परिग्राहात्+++(=?)+++ कृत्वा, श्वोभूत आप्यलेपं निनीय, उत्तरं परिगृह्णीयात्। परिस्तरणं च +++(ततः परम् - इति विकृतेष्टिषु साधारणव्यवस्था)+++।
+++(परिस्तरणान्तानि सर्वाण्यपि प्रागुक्तकर्माणि)+++ पूर्वेद्युर् अमावास्यायां +++(क्रियायाम् - नात्रकालनिर्देशः)+++,
पौर्णमास्यां +++(क्रियायां)+++ त्व् अन्वाधान-परिस्तरणोपवासाः +++(इति त्रयमेव पूर्वेद्युः)+++। १७

18 सद्यो वा सद्यस्कालायां ...{Loading}...

+++(पौर्णमास्यां)+++ सद्यो वा सद्यस्कालायां सर्वं क्रियते १८

इति चतुर्दशी कण्डिका इति चतुर्थः पटलः


  1. Rice etc. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Berries like Jujub. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.4.17. ↩︎ ↩︎ ↩︎

  4. TB III.7.4.14. ↩︎ ↩︎ ↩︎

  5. TB II.5.5.1 limits the performance of the Sāṁnāyya-ritual only to the performer of a soma-sacrifice. ↩︎ ↩︎

  6. See II.3.7. ↩︎

  7. See I.14.12-15. ↩︎