१३

01 उत्सन् दुहन्ति कलशञ् ...{Loading}...

“उत्सं दुहन्ति कलशं चतुर्बिलम्
इडां देवीं मधुमतीं सुवर्विदम् ।
तदिन्द्राग्नी जिन्वतं सूनृतावत्
तद् यजमानम् अमृतत्वे दधात्वि"ति धाराधोषम् १

02 दुग्ध्वा हरति ...{Loading}...

दुग्ध्वा हरति +++(अध्वर्यवे दोग्धा)+++ २

03 तम् पृच्छति कामधुक्षः ...{Loading}...

तं पृच्छति - “काम् अधुक्षः प्र णो ब्रूहि - इन्द्राय हविर् इन्द्रियमि"ति ३

04 अमूमिति निर्दिशति यस्यान् ...{Loading}...

“अमूमि"ति निर्दिशति +++(नाम्ना)+++, ततः “यस्यां देवानां मनुष्याणां पयो हितमि"ति प्रत्याह +++(दोग्धा)+++४

05 सा विश्वायुरित्यनुमन्त्रयते ...{Loading}...

“सा विश्वायुरि"त्यनुमन्त्रयते ५

06 देवस्त्वा सविता पुनातु ...{Loading}...

“देवस्त्वा सविता पुनातु, वसोः पवित्रेण शतधारेण सुपुवे"ति कुम्भ्यां तिरः पवित्रमासिञ्चति ६

07 हुत स्तोको हुतो ...{Loading}...

“हुत स्तोको हुतो द्रप्स” इति विप्रुषो+++(=बिन्दवः?)+++ ऽनुमन्त्रयते ७

08 एवन् द्वितीयान् तृतीयाञ् ...{Loading}...

एवं द्वितीयां तृतीयां च दोहयति ८

09 सा विश्वव्यचा इति ...{Loading}...

“सा विश्वव्यचा” इति द्वितीयामनुमन्त्रयते । “सा विश्वकर्मे"ति तृतीयाम् ९

10 तिस्रो दोहयित्वा बहु ...{Loading}...

तिस्रो दोहयित्वा -
“बहु दुग्धीन्द्राय देवेभ्यो
हव्यमाप्यायतां पुनः ।
वत्सेभ्यो मनुष्येभ्यः
पुनर्दोहाय कल्पतामि"ति त्रिर् +++(उक्त्वा)+++ {वाचं विसृज्य}+++(=वाङ्नियमान् निवर्त्य)+++
+++(कुम्भीं)+++ अनन्वार+++(ल)+++भ्य
तूष्णीम् उत्तरा दोहयित्वा +++(होमातिरिक्त-प्रयोजनाय?)+++
दोहने ऽप आनीय
“संपृक्ष्यध्वम् ऋतावरीरि"ति कुम्भ्यां +++(दोहन)+++संक्षालनम् +++(जलम्)+++ आनीय
+अविष्यन्दयन् सुशृतं करोति १०

11 दृंह गा दृंह ...{Loading}...

“दृंह गा, दृंह गोपतिं, मा वो यज्ञपती रिषदि"ति वर्त्म कुर्वन् +++(लक्षणया =कर्षन्)+++ प्रागुद्वासयत्युदक् प्रागुदग्वा ११

12 एकस्या द्वयोस्तिसृणां वैकाहे ...{Loading}...

एकस्या द्वयोस् तिसृणां वा +एकाहे द्व्यहे त्र्यहे वा पुरस्ताद् उपवसथाद्+++(=प्रधानकर्मणः पूर्वदिनात्)+++ आतञ्चनार्थं दोहयित्वा, सन्ततम् +++(काले काले)+++ अभिदुहन्त्य् ओ+++(आ+उ)+++पवसथात् १२

13 तेन शीतबुध्नमातनक्ति ...{Loading}...

तेन शीत+++(कुम्भी)+++बुध्नम्+++(=तलम्)+++ आतनक्ति+++(=आतञ्जनं करोतिष्)+++ १३

14 सोमेन त्वातनच्मीन्द्राय दधीति ...{Loading}...

“सोमेन त्वातनच्मीन्द्राय दधी"ति दध्ना +++(आतनक्ति)+++१४

15 यज्ञस्य सन्ततिरसि यज्ञस्य ...{Loading}...

“यज्ञस्य संततिरसि, यज्ञस्य त्वा सन्ततिम् अनुसन्तनोमी"त्यग्निहोत्रोच्छेषणम् अन्ववधाय
“अयं पयः सोमं कृत्वा स्वां योनिमपिगच्छतु ।
+++(पलाशे प्रयुज्यमाने)+++ “पर्णवल्कः+++(=पलाशशकलः)+++ पवित्रं सौम्यः सोमाद्धि निर्मित” इति परिवासन+++(=छेदन)+++शकलम् अन्ववदधाति १५

इति त्रयोदशी कण्डिका


  1. TB III.7.4.16. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB III.2.3.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See I.12.5; TB III.2.3.8. ↩︎ ↩︎

  4. See 1.2.2.; TB III.2.3.8. ↩︎ ↩︎

  5. TS I.1.3.1. ↩︎

  6. The milk is boiled in the earthen pitcher which is already kept on fire see I.12.6. ↩︎