01 उत्सन् दुहन्ति कलशञ् ...{Loading}...
“उत्सं दुहन्ति कलशं चतुर्बिलम्
इडां देवीं मधुमतीं सुवर्विदम् ।
तदिन्द्राग्नी जिन्वतं सूनृतावत्
तद् यजमानम् अमृतत्वे दधात्वि"ति धाराधोषम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The sacrificer addresses) the sound of stream of milk with utsaṁ duhanti…1
मूलम् ...{Loading}...
। उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीं सुवर्विदम् । तदिन्द्राग्नी जिन्वतं सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराधोषम् १
02 दुग्ध्वा हरति ...{Loading}...
दुग्ध्वा हरति +++(अध्वर्यवे दोग्धा)+++ २
सर्वाष् टीकाः ...{Loading}...
थिते
- After having milked (the milker) brings the milk towards the Adhvaryu.
मूलम् ...{Loading}...
दुग्ध्वा हरति २
03 तम् पृच्छति कामधुक्षः ...{Loading}...
तं पृच्छति - “काम् अधुक्षः प्र णो ब्रूहि - इन्द्राय हविर् इन्द्रियमि"ति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) asks him (the milker) kāmadhukṣaḥ…1
मूलम् ...{Loading}...
तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियमिति ३
04 अमूमिति निर्दिशति यस्यान् ...{Loading}...
“अमूमि"ति निर्दिशति +++(नाम्ना)+++, ततः “यस्यां देवानां मनुष्याणां पयो हितमि"ति प्रत्याह +++(दोग्धा)+++४
मूलम् ...{Loading}...
अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह ४
05 सा विश्वायुरित्यनुमन्त्रयते ...{Loading}...
“सा विश्वायुरि"त्यनुमन्त्रयते ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu) says sā viśvāyuḥ1 in connection with her.
मूलम् ...{Loading}...
सा विश्वायुरित्यनुमन्त्रयते ५
06 देवस्त्वा सविता पुनातु ...{Loading}...
“देवस्त्वा सविता पुनातु, वसोः पवित्रेण शतधारेण सुपुवे"ति कुम्भ्यां तिरः पवित्रमासिञ्चति ६
मूलम् ...{Loading}...
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति ६
07 हुत स्तोको हुतो ...{Loading}...
“हुत स्तोको हुतो द्रप्स” इति विप्रुषो+++(=बिन्दवः?)+++ ऽनुमन्त्रयते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With huta stoko huto drapsaḥ1 addresses the drops (of milk.)
मूलम् ...{Loading}...
हुत स्तोको हुतो द्रप्स इति विप्रुषोऽनुमन्त्रयते ७
08 एवन् द्वितीयान् तृतीयाञ् ...{Loading}...
एवं द्वितीयां तृतीयां च दोहयति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the same way (the Adhvaryu) causes the second and the third (cow) to be milked.
मूलम् ...{Loading}...
एवं द्वितीयां तृतीयां च दोहयति ८
09 सा विश्वव्यचा इति ...{Loading}...
“सा विश्वव्यचा” इति द्वितीयामनुमन्त्रयते । “सा विश्वकर्मे"ति तृतीयाम् ९
मूलम् ...{Loading}...
सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते । सा विश्वकर्मेति तृतीयाम् ९
10 तिस्रो दोहयित्वा बहु ...{Loading}...
तिस्रो दोहयित्वा -
“बहु दुग्धीन्द्राय देवेभ्यो
हव्यमाप्यायतां पुनः ।
वत्सेभ्यो मनुष्येभ्यः
पुनर्दोहाय कल्पतामि"ति त्रिर् +++(उक्त्वा)+++ {वाचं विसृज्य}+++(=वाङ्नियमान् निवर्त्य)+++
+++(कुम्भीं)+++ अनन्वार+++(ल)+++भ्य
तूष्णीम् उत्तरा दोहयित्वा +++(होमातिरिक्त-प्रयोजनाय?)+++
दोहने ऽप आनीय
“संपृक्ष्यध्वम् ऋतावरीरि"ति कुम्भ्यां +++(दोहन)+++संक्षालनम् +++(जलम्)+++ आनीय
+अविष्यन्दयन् सुशृतं करोति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having caused three (cows) to be milked with bahu dugdhindrāya1…, having thrice released the speech,2 without holding (the earthen pitcher)3, having caused more (cows)4 to be milked, having poured some water in the milking pot, with sampṛcyadhvamṛtāvariḥ…5 having poured the wash-water into the (earthen) pitcher, he makes the milk well-boiled without letting it overflow.6
मूलम् ...{Loading}...
तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति त्रिर्वाचं विसृज्यानन्वारभ्य तूष्णीमुत्तरा दोहयित्वा दोहनेऽप आनीय सम्पृक्ष्यध्वमृतावरीरिति कुम्भ्यां सङ्क्षालनमानीयाविष्यन्दयन्सुशृतं करोति १०
11 दृंह गा दृंह ...{Loading}...
“दृंह गा, दृंह गोपतिं, मा वो यज्ञपती रिषदि"ति वर्त्म कुर्वन् +++(लक्षणया =कर्षन्)+++ प्रागुद्वासयत्युदक् प्रागुदग्वा ११
सर्वाष् टीकाः ...{Loading}...
थिते
ll. With dṛṁha gā dṛṁha gopatim… (the Adhvaryu) removes the pitcher (from the embers) towards the east, or the north or towards the north-east, dragging1 as it were.
मूलम् ...{Loading}...
दृंह गा दृंह गोपतिं मा वो यज्ञपती रिषदिति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा ११
12 एकस्या द्वयोस्तिसृणां वैकाहे ...{Loading}...
एकस्या द्वयोस् तिसृणां वा +एकाहे द्व्यहे त्र्यहे वा पुरस्ताद् उपवसथाद्+++(=प्रधानकर्मणः पूर्वदिनात्)+++ आतञ्चनार्थं दोहयित्वा, सन्ततम् +++(काले काले)+++ अभिदुहन्त्य् ओ+++(आ+उ)+++पवसथात् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Having caused one or two or three cows to be milked one or two or three days before the day preceding the sacrifice for the sake of curdling, they continuously milk the cows both in the morning and in the evening.
मूलम् ...{Loading}...
एकस्या द्वयोस्तिसृणां वैकाहे द्व्यहे त्र्यहे वा पुरस्तादुपवसथादातञ्चनार्थं दोहयित्वा सन्ततमभिदुहन्त्योपवसथात् १२
13 तेन शीतबुध्नमातनक्ति ...{Loading}...
तेन शीत+++(कुम्भी)+++बुध्नम्+++(=तलम्)+++ आतनक्ति+++(=आतञ्जनं करोतिष्)+++ १३
सर्वाष् टीकाः ...{Loading}...
थिते
- With that (curdling agent) he curdles (the milk in the pitcher) after having cooled the bottom.
मूलम् ...{Loading}...
तेन शीतबुध्नमातनक्ति १३
14 सोमेन त्वातनच्मीन्द्राय दधीति ...{Loading}...
“सोमेन त्वातनच्मीन्द्राय दधी"ति दध्ना +++(आतनक्ति)+++१४
सर्वाष् टीकाः ...{Loading}...
थिते
- With somena tvātanacmi1 (he curdles) with the curds (as the curdling agent).
मूलम् ...{Loading}...
सोमेन त्वातनच्मीन्द्राय दधीति दध्ना १४
15 यज्ञस्य सन्ततिरसि यज्ञस्य ...{Loading}...
“यज्ञस्य संततिरसि, यज्ञस्य त्वा सन्ततिम् अनुसन्तनोमी"त्यग्निहोत्रोच्छेषणम् अन्ववधाय
“अयं पयः सोमं कृत्वा स्वां योनिमपिगच्छतु ।
+++(पलाशे प्रयुज्यमाने)+++ “पर्णवल्कः+++(=पलाशशकलः)+++ पवित्रं सौम्यः सोमाद्धि निर्मित” इति परिवासन+++(=छेदन)+++शकलम् अन्ववदधाति १५
मूलम् ...{Loading}...
यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनुसन्तनोमीत्यग्निहोत्रोच्छेषणमन्ववधायायं पयः सोमं कृत्वा स्वां योनिमपिगच्छतु । पर्णवल्कः पवित्रं सौम्यः सोमाद्धि निर्मित इति परिवासनशकलमन्ववदधाति १५
इति त्रयोदशी कण्डिका