१२

01 निष्टप्तं रक्षो निष्टप्तोऽघशंस ...{Loading}...

निष्टप्तं रक्षो निष्टप्तो ऽघशंस" इति गार्हपत्ये सांनाय्यपात्राणि प्रतितप्य
“धृष्टिरसि ब्रह्म यच्छे"त्युपवेषमादाय
“निरूढं जन्यं भयं निरूढाः सेना अभीत्वरीरि"ति गार्हपत्याद् उदीचो ऽङ्गारान् निरूह्य
“मातरिश्वनो घर्मो ऽसी"ति तेषु कुम्भीमधिश्रयति १

02 अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् ...{Loading}...

“अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् ।
पशुभिः संनीतं बिभृताम् इन्द्राय शृतं दधी"ति वा २

03 भृगूणामङ्गिरसान् तपसा तप्यस्वेति ...{Loading}...

“भृगूणामङ्गिरसां तपसा तप्यस्वे"ति प्रदक्षिणम् अङ्गारैः पर्यूह्य
“वसूनां पवित्रमसी"ति तस्यां प्रागग्रं शाखापवित्रम् अत्यादधाति ३

04 उदक् प्रातः ...{Loading}...

उदक् प्रातः ४

05 कुम्भीमन्वारभ्य वाचं यच्छति ...{Loading}...

कुम्भीमन्वार+++(ल)+++भ्य+++(=स्पृष्ट्वा)+++ वाचं यच्छति +++(यज्ञमन्त्रप्रयोगमन्तरा)+++ ५

06 पवित्रं वा धारयन्नास्ते ...{Loading}...

पवित्रं वा धारयन्नास्ते +++(वाग्यतः)+++ ६

07 अदित्यै रास्नासीत्यभिधानीमादत्ते ...{Loading}...

“अदित्यै रास्नासीत्य्” अभिधानीम् आदत्ते ७

08 त्रयस्त्रिंशेऽसि तन्तूनाम् पवित्रेण ...{Loading}...

“त्रयस्त्रिंशे ऽसि तन्तूनां पवित्रेण सहागहि ।
शिवेयं रज्जुर् अभिधान्य् अघ्नियाम् उपसेवतामि"त्यादीयमानाम् अभिमन्त्रयते यजमानः ८

09 पूषासीति वत्समभिदधाति ...{Loading}...

पूषासीति वत्सम् अभिदधाति+++(=बध्नाति)+++ ९

10 उपसृष्टाम् मे प्रब्रूतादिति ...{Loading}...

“उपसृष्टां+++(=उपगतवत्सां)+++ मे प्रब्रूतादि"ति +++(दोग्धारं)+++ संप्रेष्यति १०

11 उपसृजामीत्यामन्त्रयते अयक्ष्मा वः ...{Loading}...

+++(दोग्धा)+++ “उपसृजामी"त्यामन्त्रयते +++(अध्वर्युम्)+++।
“अयक्ष्मा वः प्रजया संसृजामि
रायस्पोषेण बहुला भवन्तीरि"ति वत्सम् उपसृजति ११

12 गाञ् चोपसृष्टां विहारञ् ...{Loading}...

“गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टे"ति संप्रेष्यति +++(जनान् अध्वर्युः)+++ १२

13 यद्युपसृष्टां व्यवेयात्सान्नाय्यम् मा ...{Loading}...

“यद्युपसृष्टां व्यवेयात्, सांनाय्यं मा विलोपी"ति ब्रूयात् +++(प्रायश्चित्ते)+++१३

14 उपसीदामीत्यामन्त्रयते अयक्ष्मा वः ...{Loading}...

“उपसीदामी"त्यामन्त्रयते ।
“अयक्ष्मा वः प्रजया संसृजामि
रायस्पोषेण बहुला भवन्तीः ।
ऊर्जं पयः पिन्वमाना घृतं च
जीवन्तीरुप वः सदेयमि"ति दोग्धोपसीदति १४

15 न श्रूद्रो दुह्याद्दुह्याद्वा ...{Loading}...

न श्रूद्रो दुह्याद् दुह्याद् वा +++(इति विकल्पः)+++१५

16 दारुपात्रे दोग्धि ...{Loading}...

दारुपात्रे दोग्धि १६

17 उपसृष्टान् दुह्यमानान् धाराघोषञ् ...{Loading}...

उपसृष्टां दुह्यमानां धाराघोषं च यजमानो ऽनुमन्त्रयते - “अयक्ष्मा वः प्रजया संसृजामी"त्युपसृष्टाम् ,
“द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधात्वि"ति दुह्यमानाम् १७

इति द्वादशी कण्डिका


  1. VS I.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.1.7.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. JB I.39. ↩︎ ↩︎ ↩︎

  4. The embers are to be taken away within the Gārhapatya fire only. ↩︎

  5. . TS 1.1.3.b-e. ↩︎

  6. See I.11.5. ↩︎