01 निष्टप्तं रक्षो निष्टप्तोऽघशंस …{Loading}…
निष्टप्तं रक्षो निष्टप्तो ऽघशंस" इति गार्हपत्ये सांनाय्यपात्राणि प्रतितप्य
“धृष्टिरसि ब्रह्म यच्छे"त्युपवेषमादाय
“निरूढं जन्यं भयं निरूढाः सेना अभीत्वरीरि"ति गार्हपत्याद् उदीचो ऽङ्गारान् निरूह्य
“मातरिश्वनो घर्मो ऽसी"ति तेषु कुम्भीमधिश्रयति १
थिते
- With niṣṭapataṁ rakṣo niṣṭapta arātayaḥ1 having heated the utensils of Sāṁnāyya on the Gārhapatya (fire), with dhṛṣṭirasi brahma yaccha2 having taken the fire-stirring stick in his hand, with nirūḍhaṁ janyaṁ…3: having taken out embers from the Gārhapatya fire to the north,4 with mātariśvano gharmo’si5 the Adhvaryu places the (earthen) pitcher6 on them (embers).
निष्टप्तं रक्षो निष्टप्तोऽघशंस इति गार्हपत्ये सान्नाय्यपात्राणि प्रतितय्य धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय निरूढं जन्यं भयं निरूढाः सेना अभीत्वर्रारिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य मातरिश्वनो घर्मोऽसीति तेषु कुम्भीमधिश्रयति १
02 अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् …{Loading}…
“अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् ।
पशुभिः संनीतं बिभृताम् इन्द्राय शृतं दधी"ति वा २
थिते
- Or (he keeps the earthen pitcher on the embers) with aprasraṁsāya yajñasya…1
अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः सन्नीतं बिभृतामिन्द्राय शृतं दधीति वा २
03 भृगूणामङ्गिरसान् तपसा तप्यस्वेति …{Loading}…
“भृगूणामङ्गिरसां तपसा तप्यस्वे"ति प्रदक्षिणम् अङ्गारैः पर्यूह्य
“वसूनां पवित्रमसी"ति तस्यां प्रागग्रं शाखापवित्रम् अत्यादधाति ३
भृगूणामङ्गिरसां तपसा तप्यस्वेति प्रदक्षिणमङ्गारैः पर्यूह्य वसूनां पवित्रमसीति तस्यां प्रागग्रं शाखापवित्रमत्यादधाति ३
04 उदक् प्रातः …{Loading}…
उदक् प्रातः ४
उदक् प्रातः ४
05 कुम्भीमन्वारभ्य वाचं यच्छति …{Loading}…
कुम्भीमन्वार+++(ल)+++भ्य+++(=स्पृष्ट्वा)+++ वाचं यच्छति +++(यज्ञमन्त्रप्रयोगमन्तरा)+++ ५
थिते
- Having held the pitcher he restrains his speech.1
कुम्भीमन्वारभ्य वाचं यच्छति ५
06 पवित्रं वा धारयन्नास्ते …{Loading}…
पवित्रं वा धारयन्नास्ते +++(वाग्यतः)+++ ६
थिते
- Or holding the (branch) strainer he remains seated.
पवित्रं वा धारयन्नास्ते ६
07 अदित्यै रास्नासीत्यभिधानीमादत्ते …{Loading}…
“अदित्यै रास्नासीत्य्” अभिधानीम् आदत्ते ७
अदित्यै रास्नासीत्यभिधानीमादत्ते ७
08 त्रयस्त्रिंशेऽसि तन्तूनाम् पवित्रेण …{Loading}…
“त्रयस्त्रिंशे ऽसि तन्तूनां पवित्रेण सहागहि ।
शिवेयं रज्जुर् अभिधान्य् अघ्नियाम् उपसेवतामि"त्यादीयमानाम् अभिमन्त्रयते यजमानः ८
थिते
- With trayastrimso’si…1 the sacrificer addresses the rope while it is being taken.
त्रयस्त्रिंशेऽसि तन्तूनां पवित्रेण सहागहि । शिवेयं रज्जुरभिधान्यघ्नियामुपसेवतामित्यादीयमानामभिमन्त्रयते यजमानः ८
09 पूषासीति वत्समभिदधाति …{Loading}…
पूषासीति वत्सम् अभिदधाति+++(=बध्नाति)+++ ९
थिते
- With pūṣāsi1 the milker tethers the calf.
पूषासीति वत्समभिदधाति ९
10 उपसृष्टाम् मे प्रब्रूतादिति …{Loading}…
“उपसृष्टां+++(=उपगतवत्सां)+++ मे प्रब्रूतादि"ति +++(दोग्धारं)+++ संप्रेष्यति १०
थिते
- The Adhvaryu orders the milker “Do you announce (the cow) when the cow is near the calf”.1
उपसृष्टां मे प्रब्रूतादिति सम्प्रेष्यति १०
11 उपसृजामीत्यामन्त्रयते अयक्ष्मा वः …{Loading}…
+++(दोग्धा)+++ “उपसृजामी"त्यामन्त्रयते +++(अध्वर्युम्)+++।
“अयक्ष्मा वः प्रजया संसृजामि
रायस्पोषेण बहुला भवन्तीरि"ति वत्सम् उपसृजति ११
थिते
- The milker responds the order by saying “I am bringing the calf near the cow”. With ayakṣmā vaḥ prajayā samsṛjāmi…1 he brings the calf near the cow.
उपसृजामीत्यामन्त्रयते । अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीरिति वत्समुपसृजति ११
12 गाञ् चोपसृष्टां विहारञ् …{Loading}…
“गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टे"ति संप्रेष्यति +++(जनान् अध्वर्युः)+++ १२
थिते
- “Do you not pass between the sacrificial place and the cow near which the calf has been brought” the Adhvarvu orders.
गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्टेति सम्प्रेष्यति १२
13 यद्युपसृष्टां व्यवेयात्सान्नाय्यम् मा …{Loading}…
“यद्युपसृष्टां व्यवेयात्, सांनाय्यं मा विलोपी"ति ब्रूयात् +++(प्रायश्चित्ते)+++१३
थिते
- After the calf has been brought near if someone passes in between, the Adhvaryu should say, “May the Sāṁnāyya be not impaired”.
यद्युपसृष्टां व्यवेयात्सान्नाय्यं मा विलोपीति ब्रूयात् १३
14 उपसीदामीत्यामन्त्रयते अयक्ष्मा वः …{Loading}…
“उपसीदामी"त्यामन्त्रयते ।
“अयक्ष्मा वः प्रजया संसृजामि
रायस्पोषेण बहुला भवन्तीः ।
ऊर्जं पयः पिन्वमाना घृतं च
जीवन्तीरुप वः सदेयमि"ति दोग्धोपसीदति १४
थिते
- (The milker calls the Adhvaryu) with “I sit down near the cow)”. With ayakṣmā vaḥ prajayā sāṁsṛjāmi…1 the milker sits down near the cow.
उपसीदामीत्यामन्त्रयते । अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवन्तीरुप वः सदेयमिति दोग्धोपसीदति १४
15 न श्रूद्रो दुह्याद्दुह्याद्वा …{Loading}…
न श्रूद्रो दुह्याद् दुह्याद् वा +++(इति विकल्पः)+++१५
थिते
-
A Śudra should not milk or rather he may milk.1
-
Cf. TB III.2.3.9; Cp. VI. 3.11-14.
न श्रूद्रो दुह्याद्दुह्याद्वा १५
16 दारुपात्रे दोग्धि …{Loading}…
दारुपात्रे दोग्धि १६
थिते
- He milks in a wooden pot.1
दारुपात्रे दोग्धि १६
17 उपसृष्टान् दुह्यमानान् धाराघोषञ् …{Loading}…
उपसृष्टां दुह्यमानां धाराघोषं च यजमानो ऽनुमन्त्रयते - “अयक्ष्मा वः प्रजया संसृजामी"त्युपसृष्टाम् ,
“द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधात्वि"ति दुह्यमानाम् १७
उपसृष्टां दुह्यमानां धाराघोषं च यजमानोऽनुमन्त्रयते । अयक्ष्मा वः प्रजया संसृजामीत्युपसृष्टाम् । द्यौश्चेमं यज्ञं पृथिवी च सन्दुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानाम् १७
इति द्वादशी कण्डिका