01 अमावास्यायां रात्र्यां स्वयं ...{Loading}...
अमावास्यायां +++(क्रियायां - कर्मसूचकोऽत्र प्रयोगः)+++ रात्र्यां स्वयं यजमानो यवाग्वा+++(=यवपिष्टजलपाकेन)+++ ऽऽग्निहोत्रं जुहोत्य् अग्निहोत्रोच्छेषणम् आतञ्चनार्थं+++(=घनीभावाय)+++ निदधाति १
मूलम् ...{Loading}...
अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वाग्निहोत्रं जुहोत्यग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति १
02 नास्यैतां रात्रिङ् कुमाराश्चन ...{Loading}...
नास्यैतां रात्रिं कुमाराश् चन+++(=अपि)+++ पयसो लभन्ते २
सर्वाष् टीकाः ...{Loading}...
थिते
- On this night even the children do not get milk.1
मूलम् ...{Loading}...
नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते २
03 हुते सायमग्निहोत्रे सायन्दोहन् ...{Loading}...
हुते सायम् अग्निहोत्रे सायन्दोहं दोहयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- After the evening Agnihotra has been offered, he causes the evening-milking done.
मूलम् ...{Loading}...
हुते सायमग्निहोत्रे सायन्दोहं दोहयति ३
04 अग्नीन्परिस्तीर्याग्निमग्नी वा सान्नाय्यपात्राणि ...{Loading}...
अग्नीन् परिस्तीर्याग्निम् अग्नी वा सांनाय्यपात्राणि प्रक्षाल्योत्तरेण गार्हपत्यं दर्भान् संस्तीर्य द्वन्द्वं न्युञ्चि प्रयुनक्ति ४
मूलम् ...{Loading}...
अग्नीन्परिस्तीर्याग्निमग्नी वा सान्नाय्यपात्राणि प्रक्षाल्योत्तरेण गार्हपत्यं दर्भान्संस्तीर्य द्वन्द्वं न्युञ्चि प्रयुनक्ति ४
05 कुम्भीं शाखापवित्रमभिधानीन् निदाने ...{Loading}...
कुम्भीं, शाखापवित्रम् +++(=दर्भत्रयसहिता शलाका)+++, अभिधानीं+++(=वत्सबन्धनरज्जुः)+++ निदाने +++(=गोपृष्ठपादबन्धनरज्जुः)+++, दारुपात्रं, दोहनम्, अयस्पात्रं दारुपात्रं वापिधानार्थम्, अग्निहोत्रहवनीम्, उपवेषं +++(=अग्नौ अपसारणार्थं प्रयुज्यमानं)+++ च ५
मूलम् ...{Loading}...
कुम्भीं शाखापवित्रमभिधानीं निदाने दारुपात्रं दोहनमयस्पात्रं दारुपात्रं वापिधानार्थमग्निहोत्रहवनीमुपवेषं च ५
06 समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ ...{Loading}...
समाव् अप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He makes two strainers out of two darbha-blades of the same thickness, each one of the measurement of one span in length.
मूलम् ...{Loading}...
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते ६
07 पवित्रे स्थो वैष्णवी ...{Loading}...
“पवित्रे स्थो, वैष्णवी वायुर् वां मनसा पुनात्वि"ति तृणं काष्ठं वान्तर्धाय छिनत्ति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having held a blade of grass or a stick in between the darbha-blades and the knife, he cuts the darbha-blades with pavitre stho vaiṣṇavī…1
मूलम् ...{Loading}...
पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनात्विति तृणं काष्ठं वान्तर्धाय छिनत्ति ७
08 न नखेन ...{Loading}...
न नखेन ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not cut by means of his nail.
मूलम् ...{Loading}...
न नखेन ८
09 विष्णोर्मनसा पूते स्थ ...{Loading}...
“विष्णोर् मनसा पूते स्थ” इत्यद्भिरनुमृज्य
पवित्रान्तर्हितायाम् अग्निहोत्रहवण्याम् अप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीर् उत्पुनाति - “देवो वः सवितोत्पुनात्वि"ति प्रथमम् । “अच्छिद्रेण पवित्रेणे"ति द्वितीयम् । “वसोः सूर्यस्य रश्मिभिरि"ति तृतीयम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇor manasā pūte stha1 having applied water from the root-side upto the end-side, having held the strainer in between them, having poured water in the Agnihotra-ladle, he purifies the water with the strainers the ends of which are turned upwards, first with devo vaḥ savitotpunātu2; second with acchidreṇa pavitreṇa3; third with vasoḥ sūryasya raśmibhiḥ.4
मूलम् ...{Loading}...
विष्णोर्मनसा पूते स्थ इत्यद्भिरनुमृज्य पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनात्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । वसोः सूर्यस्य रश्मिभिरिति तृतीयम् ९
10 आपो देवीरग्रेपुव इत्यभिमन्त्र्योत्तानानि ...{Loading}...
“आपो देवीर् अग्रे पुव” इत्यभिमन्त्र्य
उत्तानानि पात्राणि पर्यावर्त्य
“शुन्धध्वं दैव्याय कर्मण” इति त्रिः प्रोक्ष्य
+++(प्रश्चात् प्रयोगाय)+++ प्रज्ञाते पवित्रे निदधाति ।
“आपो देवीः शुद्धा स्थेमा पात्राणि शुन्धत ।
उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत ।
देवेन सवित्रोत्पूता वसोः सूर्यस्य रश्मिभिः ।
गां दोहपवित्रे रज्जुं सर्वा पात्राणि शुन्धते"ति प्रोक्ष्यमाणान्य् अभिमन्त्र्य
“एता आचरन्ति मधुमद् दुहानाः
प्रजावतीर्यशसो विश्वरूपाः ।
बह्वीर् भवन्तीर् उपजायमाना
इह व इन्द्रो रमयतु गाव” इति गा +++(गोष्ठाद् विहारसमीपम्)+++ आयतीः प्रतीक्षते यजमानः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With āpo deviragrepuvah1 having addressed the utensils, having then turned them with upside up,2 with śundhadhvaṁ daivyāya karmaṇe3 having thrice sprinkled water on them, he keeps them on the known strainer. Having addressed the utensils on which water is being sprinkled with apo deviḥ śuddhā stha…4 the sacrificer looks at the returning cows with etā ācaranti madhumadduhānāḥ ….5
मूलम् ...{Loading}...
आपो देवीरग्रेपुव इत्यभिमन्त्र्योत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रज्ञाते पवित्रे निदधाति । आपो देवीः शुद्धा स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोः सूर्यस्य रश्मिभिः । गां दोहपवित्रे रज्जुं सर्वा पात्राणि शुन्धतेति प्रोक्ष्यमाणान्यभिमन्त्र्यैता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते यजमानः १०
इत्येकादशी कण्डिका