१०

01 एतानि वः पितरो ...{Loading}...

“एतानि वः पितरो वासांस्यतो नो ऽन्यत् पितरो मा योष्टेति” वाससो दशां +++(=अग्रम्)+++ छित्त्वा निदधात्य् ऊर्णास्तुकां +++(=उर्णानाम् अविलोमम् कलापम्)+++ वा पूर्वे वयसि । उत्तर आयुषि स्वं लोम १

02 वीतोष्मसु पिण्डेषु नमो ...{Loading}...

वीतोष्मसु पिण्डेषु “नमो वः पितरो रसाये"ति नमस्काराञ्जपति २

03 गृहान्नः पितरो दत्त ...{Loading}...

“गृहान्नः पितरो दत्त सदो वः पितरो देष्मे"ति पितॄनुपतिष्ठते ३

04 ऊर्जम् बृहन्तीरमृतङ् घृतम् ...{Loading}...

“ऊर्जं बृहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄनि"त्युदकं +++(कुम्भेषु)+++ निनयति +++(एकस्प्यायाम्)+++ ४

05 मनो न्वाहुवामह इति ...{Loading}...

“मनो न्वाहुवामह” इति मनस्वतीभिर् +++(त्रिभिर्)+++ उपतिष्ठते ५

06 उत्तिष्ठत पितरः प्रेत ...{Loading}...

“उत्तिष्ठत पितरः प्रेतशूरा यमस्य पन्थामनुवेता पुराणम् ।
धत्ताद् अस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद् भागधां देवतास्वि"ति पितॄनुत्थापयति ६

07 परेत पितरः सोम्या ...{Loading}...

“परेत पितरः सोम्या” इति प्रवाहण्या+++(=?)+++ पितॄन् प्रवाहयति ७

08 प्रजापते न त्वदेतानीति ...{Loading}...

“प्रजापते न त्वदेतानी"ति यज्ञोपवीती गार्हपत्यदेशं गच्छति ८

09 यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते ...{Loading}...

“यदन्तरिक्षमि"ति पङ्क्त्या गार्हपत्यमुपतिष्ठते ९

10 अपान् त्वौषधीनां रसम् ...{Loading}...

“अपां त्वौषधीनां रसं प्राशयामि, भूतकृतं गर्भं धत्स्वे"ति मध्यमं पिण्डं पत्न्यै प्रयच्छति १०

11 आधत्त पितरो गर्भङ् ...{Loading}...

“आधत्त पितरो गर्भं
कुमारं पुष्करस्रजम् ।
यथेह पुरुषोऽसदि"ति तं पत्नी प्राश्नाति । पुमांसं ह जानुका+++(=जननशीला)+++ भवतीति विज्ञायते ११

12 ये सजाताः समनसो ...{Loading}...

“ये सजाताः समनसो
जीवाजीवेषु मामकाः ।
तेषां श्रीर् मयि कल्पताम्
अस्मिंल् लोके शतं समा” इत्यवशिष्टानामेकं यजमानः प्राश्नाति । न वा १२

13 स्थाल्याम् पिण्डान्समवधाय ये ...{Loading}...

स्थाल्यां पिण्डान् समवधाय “ये समाना” इति सकृदाच्छिन्नमग्नौ प्रहरति १३ +++(“ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो, यज्ञो देवेषु कल्पतां वीरं धत्त पितर” इति पूर्वं गतम्)+++

14 अभून्नो दूतो हविषो ...{Loading}...

“अभून्नो दूतो हविषो जातवेदा
अवाड्ढव्यानि सुरभीणि कृत्वा ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्
प्रजानन्न् अग्ने पुनरप्येहि देवानि"त्येकोल्मुकं प्रत्यपिसृज्य +++(=प्रतिक्षिप्य)+++
प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहरति १४

15 सन्तिष्ठते पिण्डपितृयज्ञः ...{Loading}...

संतिष्ठते+++(=समाप्यते)+++ पिण्डपितृयज्ञः १५

16 अपः पिण्डानभ्यवहरेद्ब्राह्मणं वा ...{Loading}...

अपः पिण्डानभ्यवहरेद्, ब्राह्मणं वा प्राशयेत् १६

17 सोऽयमेवंविहित एवानाहिताग्नेः ...{Loading}...

सो ऽयमेवंविहित एवानाहिताग्नेः +++(मासिश्राद्धम् अतिरिच्य।)+++१७ +++(मानवानामभिप्राये त्वाहिताग्निनां मासिश्राधे विकल्पः, ब्राह्मणभोजनम् इत्यधिकं वा।)+++

18 औपासने श्रपणधर्मा होमश्च ...{Loading}...

औपासने श्रपणधर्मा होमश्च १८

19 अतिप्रणीते वा जुहुयात् ...{Loading}...

+++(औपासने श्रपयित्वा, ततो ऽग्नौ दक्षिणाप्राञ्चं)+++ अतिप्रणीते वा जुहुयात् १९

20 यस्मिञ्जुहुयात्तमुपतिष्ठेत ...{Loading}...

यस्मिञ्जुहुयात्तमुपतिष्ठेत २०

21 तत्र गार्हपत्यशब्दो लुप्येत ...{Loading}...

तत्र गार्हपत्यशब्दो लुप्येत संस्कारप्रतिषेधात् २१

इति दशमी कण्डिका इति तृतीयः पटलः


  1. Cf. TB I.3.10.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Not identified. ↩︎ ↩︎