०९

01 सव्यञ् जान्वाच्यावाचीनपाणिः सकृदाच्छिन्ने ...{Loading}...

सव्यं जान्व् आच्य+++(=सङ्कोच्य)+++
अवाचीनपाणिः +++(पितृतीर्थेन)+++ सकृदाच्छिन्ने बर्हिषि दक्षिणापवर्गान् पिण्डान् ददात्य् “एतत्ते ततासौ ये च त्वामन्वि"त्येतैः प्रतिमन्त्रम् १

02 तूष्णीञ् चतुर्थम् ...{Loading}...

तूष्णीं चतुर्थम् २

03 स कृताकृतः ...{Loading}...

स कृताकृतः ३

04 प्रपितामहप्रभृतीन्वा ...{Loading}...

प्रपितामहप्रभृतीन् वा +++(पिण्डान् ददाति)+++४

05 नानामगृहीतङ् गच्छति ...{Loading}...

नानामगृहीतं गच्छति +++(दानम् पिण्डम् वा)+++ ५

06 यदि बन्धू न ...{Loading}...

यदि बन्धू+++(=नाम)+++ न विद्यात्- “स्वधा पितृभ्यः पृथिविषद्भ्य” इति प्रथमं पिण्डं दद्यात् ।
“स्वधा पितृभ्यो ऽन्तरिक्षसद्भ्य” इति द्वितीयम् ।
“स्वधा पितृभ्यो दिविषद्भ्य” इति तृतीयम् ६

07 यदि द्विपिता स्यादेकैकस्मिन्पिण्डे ...{Loading}...

यदि द्विपिता स्याद् एकैकस्मिन् पिण्डे द्वौ द्वाव् उपलक्षयेत् ७

08 यदि जीवपिता न ...{Loading}...

यदि जीवपिता न दद्याद् - आ होमात् कृत्वा विरमेत् ८

09 यन्मे माता प्रममाद ...{Loading}...

+++(उपस्थानम्-)+++ “यन्मे माता प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः पिता वृङ्क्तामाभुरन्योपपद्यतां पितृभ्यः स्वधा विभ्यः स्वधा नमः”, “…पितामहेभ्यः स्वधा विभ्यः स्वधा नमः”, “…प्रपितामहेभ्यः स्वधा विभ्यः स्वधा नम” इत्युपस्थाय
“अत्र पितरो यथाभागं मन्दध्वमि"त्युक्त्वा पराङावर्तते ९

10 ओष्मणो व्यावृत उपास्ते ...{Loading}...

ओष्मणो व्यावृत +++(=उद्गच्छतः)+++ उपास्ते १०

11 अमीमदन्त पितरः सोम्या ...{Loading}...

“अमी मदन्त पितरः सोम्या” इति व्यावृत्त ऊष्मण्य् अभिपर्यावर्तते, ऽव्यावृत्ते वा ११

12 यः स्थाल्यां शेषस्तमवजिघ्रति ...{Loading}...

यः स्थाल्यां शेषस् तमवजिघ्रति - “ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो, यज्ञो देवेषु कल्पतां वीरं धत्त पितर” इति १२

13 आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो ...{Loading}...

+++(घ्राणस्थाने)+++ आमयाविना प्राश्यो, ऽन्नाद्यकामेन प्राश्यो, योऽलमन्नाद्याय सन् नाद्यात् - तेन वा प्राश्यः १३

14 पूर्ववदेकस्प्यायान् त्रीनुदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने वासश्च ...{Loading}...

पूर्ववद् एकस्प्यायां त्रीन् उदकाञ्जलीन् उपनिनीय
अञ्जनाभ्यञ्जने +++(=तैलमस्यौ यथा)+++ वासश्च त्रिरनुपिण्डं ददाति १४

15 आङ्क्ष्व ततासावाङ्क्ष्व पितामहासावाङ्क्ष्व ...{Loading}...

“आङ्क्ष्व ततासाव्, अङ्क्ष्व पितामहासाव्, अङ्क्ष्व प्रपितामहासाव्” इत्याञ्जनम् १५

16 एवमभ्यञ्जनमभ्यङ्क्ष्वेति मन्त्रं सन्नमति ...{Loading}...

एवमभ्यञ्जनमभ्यङ्क्ष्वेति मन्त्रं संनमति १६

17 यदि नामानि न ...{Loading}...

यदि नामानि न विद्याद् “आञ्जतां मम पितर आञ्जतां मम पितामहा आञ्जतां मम प्रपितामहा” इत्याञ्जनम् । एवमभ्यञ्जनमभ्यञ्जतामिति मन्त्रं संनमति १७

इति नवमी कण्डिका


  1. i.e. having kept his left leg on the right thigh. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.8.5.c. ↩︎ ↩︎