०८

01 उत्पूतेन नवनीतेनानुत्पूतेन वा ...{Loading}...

उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकम् अभिघार्य
+एकस्प्यायां +++(लेखायां)+++ मेक्षणम् आसाद्य
स्थालीपाकमासादयति १

02 दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश ...{Loading}...

+++(वेद्यामेव स्थालीपाकस्य)+++ दक्षिणतः कशिपूपबर्हणम् आञ्जनम् अभ्यञ्जनम् उदकुम्भमित्येकैकश आसादयति २

03 अध्वर्युरुपवीती दक्षिणञ् जान्वाच्य ...{Loading}...

अध्वर्युर् उपवीती दक्षिणं जान्व् आच्य+++(=सङ्कोच्य, भूमौ निपायेति वा)+++,
मेक्षण उपस्तीर्य, तेनावदायाभिघार्य, “सोमाय पितृपीताय स्वधा नम” इति दक्षिणाग्नौ जुहोति ३

04 यमायाङ्गिरस्वते पितृमते स्वधा ...{Loading}...

“यमायाङ्गिरस्वते पितृमते स्वधा नम” इति द्वितीयाम् ।
“अग्नये कव्यवाहनाय स्वधा नम” इति तृतीयाम् +++(इयमेव स्विष्ट्कृतीति ब्राह्मणम्।)+++ ४

05 ये मेक्षणे तण्डुलास्तान्हुत्वा ...{Loading}...

ये मेक्षणे +++(जीवतण्डुलत्वाल्लग्नाः पूर्वाहुत्योस्)+++ तण्डुलास् - तान् +++(तृतीयमन्त्रेण)+++ हुत्वा, तूष्णीं मेक्षणमादधाति +++(अग्नौ!)+++ ५

06 न यमाय जुहोतीत्येके ...{Loading}...

न यमाय जुहोतीत्येके ६

07 अपयन्त्वसुराः पितृरूपा ये ...{Loading}...

“अपयन्त्वसुराः पितृरूपा ये
रूपाणि प्रतिमुच्याचरन्ति ।
परापुरो निपुरो ये भरन्त्य्
अग्निष् टांल् लोकात् प्रणुदात्य् अस्मात् ।

ये देवाः पितरो ये च मानुषा
ये गर्भे मम्रुर् उत ये परास्ताः ।
य उद्धता उत ये निखातास्
ते सम्यञ्च इह मादयन्ताम् ।
ये रूपाणि प्रतिमुञ्चमाना
असुराः सन्तः स्वधया चरन्ति ।
परापुरो निपुरो ये भरन्त्य्
अग्निष् टांल् लोकात् प्रणुदात्यस्मात् ।
ये ज्ञातीनां प्रतिरूपाः पितॄन्माययासुराः प्रविष्टाः ।
परापुरो निपुरो ये भरन्त्य्
अग्ने तानस्मात्प्रणुदस्व लोकाद्”
इति दक्षिणाग्नेर् एकोल्मुकं धूपायद् +हरति ७

08 दक्षिणपूर्वमवान्तरदेशं सकृत्स्प्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते ...{Loading}...

दक्षिणपूर्वम् अवान्तरदेशं सकृत्स्प्येनोल्लिख्य
+“उदीरतामवर” इत्यद्भिर् अवोक्ष्य
उल्लिखितान्ते निदधाति ८

09 यजमानो ऽत ऊर्ध्वम् ...{Loading}...

यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति ९

10 मार्जयन्ताम् मम पितरो ...{Loading}...

“मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा” इत्येकस्प्यायां त्रीनुदकाञ्जलीन् निनयति +++(वेद्याम्)+++ १०

11 प्रसव्यं वा त्रिः ...{Loading}...

प्रसव्यं वा +++(एकस्फ्यालेखां)+++ त्रिः परिषिञ्चति ११

12 त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति ...{Loading}...

+++(अञ्जलिस्थाने)+++ त्रीनुदपात्रान् वाजसनेयिनः समामनन्ति १२

इत्यष्टमी कण्डिका


  1. For the way of purification See II.6.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. cf. SB II.4.2. 10. ↩︎ ↩︎ ↩︎ ↩︎

  3. VS II.30. ↩︎

  4. This verse is found only liere. ↩︎

  5. Cp. VIII.17.8. ↩︎