०७

01 अमावास्यायां यदहश्चन्द्रमसन् न ...{Loading}...

अमावास्यायां यदहश् चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञंकुरुते १

02 अपराह्णेऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन ...{Loading}...

अपराह्णे ऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति २

03 अपाम् मेध्यं यज्ञियमिति ...{Loading}...

“अपां मेध्यं यज्ञियमि"ति समूलं सकृद्+++(=एकव्यापरेण)+++ आच्छिन्नं बर्हिराहरति ३

04 सकृदाच्छिन्नानि वा तृणान्युपमूलन् ...{Loading}...

सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि+++(=अवखण्डितानि)+++ ४

05 दक्षिणा प्रागग्रैर्दर्भैर्दक्षिणमग्निम् परिस्तीर्य ...{Loading}...

दक्षिणाप्रागग्रैर् दर्भैर् दक्षिणम् अग्निं परिस्तीर्य,
दक्षिणतः पश्चाद्वा दर्भान् संस्तीर्य,
दक्षिणाप्राञ्च्येकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति- स्प्यं मेक्षणं+++(=मिश्रणदर्वीम्)+++ कृष्णाजिनम् उलूखलं मुसलं शूर्पम् आज्यस्थालीं चरुस्थालीं येन चान्येनार्थी भवति ५

06 दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितम् ...{Loading}...

दक्षिणतः प्रागीषं+++(=?)+++ व्रीहिमच् छकटमवस्थितं भवति ६

07 अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया ...{Loading}...

अध्वर्युर् उपवीती स्थालीम् एकपवित्रेणान्तर्धाय, तया दक्षिणतः शकटाद् अधि निर्वपत्य् उत्तरतो वा +++(प्राचीनावीत्येव सन्)+++ ७

08 ताम् पूरयित्वा निमार्ष्टि ...{Loading}...

तां पूरयित्वा निमार्ष्टि+++(=स्थालीमुखं समीकरोति)+++ ८

09 मृन्मये निर्वपति पितृभ्यो ...{Loading}...

+++(ततो)+++ मृन्मये निर्वपति “पितृभ्यो वो जुष्टं निर्वपामी"ति तूष्णीं वा ९

10 अपरेणान्वाहार्यपचनम् प्रत्यगुदग्ग्रीवे कृष्णाजिन ...{Loading}...

अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिन+उलूखले प्रतिष्ठिते
दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापावम् +++(=शूर्पप्रयोगसहितम्)+++ अ+++(सतुषातुष)+++विवेकम् १०

11 सकृत्फलीकरोति ...{Loading}...

सकृत् फलीकरोति +++(तण्डुलं ताडयति तुषानपाकर्तुं)+++ ११

12 दक्षिणाग्नौ जीवतण्डुलं श्रपयति ...{Loading}...

दक्षिणाग्नौ जीवतण्डुलं +++(=ईषत्तण्डुला यथा जीवन्ति तथा)+++ श्रपयति १२

13 अपहता असुरा रक्षांसि ...{Loading}...

“अपहता असुरा रक्षांसि पिशाचा वेदिषद” इत्यन्तरा गार्हपत्यान्वाहार्यपचनौ, दक्षिणपूर्वेण वान्वाहार्यपचनं - दक्षिणाप्राचीम् एकस्प्यां +++(लेखायां)+++ पराचीं वेदिम् उद्धत्य +++(=उल्लिख्य?)+++
“शुन्धन्तां पितर” इत्यद्भिर् अवोक्ष्य
“आयन्तु पितरो मनोजवस” इत्यभिमन्त्र्य
“सकृदाच्छिन्नं बर्हिर् ऊर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् ।
अस्मिन् सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहे"ति सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति १३

इति सप्तमी कण्डिका


  1. TB III.7.4.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Contrast I.15.6. For this rule cf.TS I.6.8.2. ↩︎ ↩︎ ↩︎ ↩︎

  3. Contrast II.2.7ff. ↩︎ ↩︎

  4. See I.7.3. ↩︎

  5. Cp. II.9.2ff. ↩︎