०६

01 यत्कृष्णो रूपङ् कृत्वा ...{Loading}...

“यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।
ततस्त्वामेकविंशतिधा संभरामि सुसंभृता ।
त्रीन् परिधींस् तिस्रः समिधो यज्ञायुर् अनुसंचरान् ।
उपवेषं+++(=लक्षणावृत्त्या +इध्मं)+++ मेक्षणं+++(=लक्षणावृत्त्या +इध्मं)+++ धृष्टिं+++(=लक्षणावृत्त्या +इध्मं)+++ संभरामि सुसंभृते"ति शुल्ब इध्मं संभरति १

02 कृष्णो ऽस्याखरेष्ठो देव ...{Loading}...

“कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वे"ति संनह्यति ।
पुरस्तात् प्रत्यञ्चं ग्रन्थिम् उपगूहति, पश्चात्प्राञ्चं वा ।

अनधो निदधाति +++(अगारे)+++२

03 इध्मप्रवश्चनानि निदधाति ...{Loading}...

इध्मप्रवश्चनानि +++(=इध्मच्छेदनप्रभवान् शकलान्)+++ निदधाति +++(क्व?)+++ ३

04 त्वया वेदिं विविदुः ...{Loading}...

“त्वया वेदिं विविदुः पृथिवीं
त्वया यज्ञो जायते विश्वदानिः ।
अच्छिद्रं यज्ञम् अन्वेषि विद्वांस्
त्वया होता संतनोत्यर्धमासानि"ति दर्भाणां वेदं+++(=मुष्टिपरिमाणं?)+++ करोति ४

05 वत्सज्ञुम् पशुकामस्य मूतकार्यमन्नाद्यकामस्य ...{Loading}...

वत्सज्ञुं+++(=वत्सजान्वाकृतिं)+++ पशुकामस्य
मूतकार्यम् +++(=धान्यावपनार्थं तृणपुञ्चनंनिवेशवेस्षं यथा)+++ अन्नाद्यकामस्य
त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य ५

06 शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि ...{Loading}...

शुल्बात् प्रादेशे परिवास्य+++(=छित्त्वा)+++ वेदपरिवासनानि+++(=वेदाग्राणि)+++ निदधाति ६

07 अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि ...{Loading}...

अन्तर्वेदि शाखायाः पलाशान्य् असर्वाणि प्रशात्य
मूलतः शाखां परिवास्य+++(=छित्त्वा)+++ उपवेषं +++(=अग्नौ अपसारणार्थं प्रयुज्यमानं)+++ करोत्य्
“उपवेषोऽसि, यज्ञाय त्वां परिवेषम् अधारयन् ।
इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न” इति ७

08 तृतीयस्यै दिवो गायत्रिया ...{Loading}...

“तृतीयस्यै दिवो गायत्रिया सोम आभृतः ।
सोमपीथाय संनयितुं वकलम् अन्तरम् आदद” इति परिवासनशकलमादाय प्रज्ञातं निदधाति ८

09 त्रिवृद्दर्भमयम् पवित्रङ् कृत्वा ...{Loading}...

त्रिवृद्दर्भमयं +++(प्रादेशमात्रं)+++ पवित्रं कृत्वा,
“वसूनां पवित्रमसी"ति शाखायां शिथिलम् अवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९

10 त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः ...{Loading}...

“त्रिवृत्पलाशे दर्भ इयान् प्रादेशसंमितः ।
यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ।
इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः ।

आप्याययन्तौ संचरतां पवित्रे हव्यशोधन” इति क्रियमाणे यजमानो ऽनुमन्त्रयते १०

11 समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि ...{Loading}...

समूहन्त्य्+++(=संमृजन्त्य्)+++ अग्न्यगारम्, +++(सगोमयाभिरद्भिः)+++ उपलिम्पन्त्य् आयतनानि ११

12 अलङ्कुर्वाते यजमानः पत्नी ...{Loading}...

अलंकुर्वाते यजमानः पत्नी च १२

13 नवे सान्नाय्यकुम्भ्यौ यावच्छर्करङ् ...{Loading}...

नवे +++(=प्रथमप्रयोगे)+++ सांनाय्य-कुम्भ्यौ+++(=?)+++ यावच्छर्करं गोमयेनालिप्ते भवतः १३

इति षष्ठी कण्डिका इति द्वितीयः पटलः


  1. TS I.1.11.9; TA IV.3.3; See Xv.4.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I.4.14; I.2.10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. I.4.1. ↩︎ ↩︎