01 यत्कृष्णो रूपङ् कृत्वा …{Loading}…
“यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।
ततस्त्वामेकविंशतिधा संभरामि सुसंभृता ।
त्रीन् परिधींस् तिस्रः समिधो यज्ञायुर् अनुसंचरान् ।
उपवेषं+++(=लक्षणावृत्त्या +इध्मं)+++ मेक्षणं+++(=लक्षणावृत्त्या +इध्मं)+++ धृष्टिं+++(=लक्षणावृत्त्या +इध्मं)+++ संभरामि सुसंभृते"ति शुल्ब इध्मं संभरति १
यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविंशतिधा सम्भरामि सुसम्भृता । त्रीन्परिधीं स्तिस्रः समिधो यज्ञायुरनुसञ्चरान् । उपवेषं मेक्षणं धृष्टिं सम्भरामि सुसम्भृतेति शुल्ब इध्मं सम्भरति १
02 कृष्णो ऽस्याखरेष्ठो देव …{Loading}…
“कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वे"ति संनह्यति ।
पुरस्तात् प्रत्यञ्चं ग्रन्थिम् उपगूहति, पश्चात्प्राञ्चं वा ।
अनधो निदधाति +++(अगारे)+++२
कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति सन्नह्यति । पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा । अनधो निदधाति २
03 इध्मप्रवश्चनानि निदधाति …{Loading}…
इध्मप्रवश्चनानि +++(=इध्मच्छेदनप्रभवान् शकलान्)+++ निदधाति +++(क्व?)+++ ३
थिते
- He keeps chips of wood1 (which were fallen at the time of cutting) of the fuel (in a well-marked place).
इध्मप्रवश्चनानि निदधाति ३
04 त्वया वेदिं विविदुः …{Loading}…
“त्वया वेदिं विविदुः पृथिवीं
त्वया यज्ञो जायते विश्वदानिः ।
अच्छिद्रं यज्ञम् अन्वेषि विद्वांस्
त्वया होता संतनोत्यर्धमासानि"ति दर्भाणां वेदं+++(=मुष्टिपरिमाणं?)+++ करोति ४
त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता सन्तनोत्यर्धमासानिति दर्भाणां वेदं करोति ४
05 वत्सज्ञुम् पशुकामस्य मूतकार्यमन्नाद्यकामस्य …{Loading}…
वत्सज्ञुं+++(=वत्सजान्वाकृतिं)+++ पशुकामस्य
मूतकार्यम् +++(=धान्यावपनार्थं तृणपुञ्चनंनिवेशवेस्षं यथा)+++ अन्नाद्यकामस्य
त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य ५
थिते
- (He prepares the Veda) of the size of the knee of a calf in the case of a (sacrificer) desirous of cattle; of the size of a winnowing basket in the case of a (sacrifier) desirous of food; one with three heads in the case of a (sacrificer) desirous of Brahman-lustre.
वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य ५
06 शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि …{Loading}…
शुल्बात् प्रादेशे परिवास्य+++(=छित्त्वा)+++ वेदपरिवासनानि+++(=वेदाग्राणि)+++ निदधाति ६
थिते
- Having cut the Veda at the length of one span (up wards) from the cord he keeps the cuttings of the Veda (in a well-marked place).
शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति ६
07 अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि …{Loading}…
अन्तर्वेदि शाखायाः पलाशान्य् असर्वाणि प्रशात्य
मूलतः शाखां परिवास्य+++(=छित्त्वा)+++ उपवेषं +++(=अग्नौ अपसारणार्थं प्रयुज्यमानं)+++ करोत्य्
“उपवेषोऽसि, यज्ञाय त्वां परिवेषम् अधारयन् ।
इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न” इति ७
अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोत्युपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति ७
08 तृतीयस्यै दिवो गायत्रिया …{Loading}…
“तृतीयस्यै दिवो गायत्रिया सोम आभृतः ।
सोमपीथाय संनयितुं वकलम् अन्तरम् आदद” इति परिवासनशकलमादाय प्रज्ञातं निदधाति ८
तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमादद इति परिवासनशकलमादाय प्रज्ञातं निदधाति ८
09 त्रिवृद्दर्भमयम् पवित्रङ् कृत्वा …{Loading}…
त्रिवृद्दर्भमयं +++(प्रादेशमात्रं)+++ पवित्रं कृत्वा,
“वसूनां पवित्रमसी"ति शाखायां शिथिलम् अवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९
त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९
10 त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः …{Loading}…
“त्रिवृत्पलाशे दर्भ इयान् प्रादेशसंमितः ।
यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ।
इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः ।
आप्याययन्तौ संचरतां पवित्रे हव्यशोधन” इति क्रियमाणे यजमानो ऽनुमन्त्रयते १०
त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानोऽनुमन्त्रयते १०
11 समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि …{Loading}…
समूहन्त्य्+++(=संमृजन्त्य्)+++ अग्न्यगारम्, +++(सगोमयाभिरद्भिः)+++ उपलिम्पन्त्य् आयतनानि ११
थिते
- They cleanse the fire-chamber; besmear the places1 of fires (with water mixed with cow-dung).
समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि ११
12 अलङ्कुर्वाते यजमानः पत्नी …{Loading}…
अलंकुर्वाते यजमानः पत्नी च १२
थिते
- The sacrificer and the wife of the sacrificer adorn themselves.
अलङ्कुर्वाते यजमानः पत्नी च १२
13 नवे सान्नाय्यकुम्भ्यौ यावच्छर्करङ् …{Loading}…
नवे +++(=प्रथमप्रयोगे)+++ सांनाय्य-कुम्भ्यौ+++(=?)+++ यावच्छर्करं गोमयेनालिप्ते भवतः १३
थिते
- There are two new jars for Sāṁnāyya which should be besmeared by means of cow-dung upto the sandy-parts1 of them.
नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनालिप्ते भवतः १३
इति षष्ठी कण्डिका इति द्वितीयः पटलः