०५

01 प्रेयमगादुर्वन्तरिक्षमन्विहीति यौ गमनौ ...{Loading}...

“प्रेयमगाद्, उर्वन्तरिक्षम् अन्विही"ति यौ गमनौ +++(आदौ बर्हिरानयने कृतौ)+++ तौ प्रत्यायनौ १

02 अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशेऽन्धः ...{Loading}...

“अदित्यास् त्वोपस्थे सादयामी"त्यन्तर्वेदि परिधिदेशे ऽनधः+++(तृणस्योपरि)+++ सादयति २

03 बर्हिरसि देवङ्गममित्यासन्नमभिमन्त्रयते ...{Loading}...

“बर्हिरसि देवंगममि"त्यासन्नमभिमन्त्रयते ३

04 देवङ्गममसीत्यनधो निदधाति यथा ...{Loading}...

“देवंगममसी"त्यनधो +++(अगारे नागदन्ते यथा)+++ निदधाति - यथा प्राग् उपसादयेत् ४

05 या जाता ओषधयो ...{Loading}...

“या जाता ओषधयो
देवेभ्यस्त्रियुगं पुरा ।
तासां पर्व राध्यासं
परिस्तरमाहरन् ।”

“अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे ।
आच्छेत्ता वो मा रिषं जीवानि शरदः शतम् ।”

“अपरिमितानां परिमिताः संनह्ये सुकृताय कम् ।
एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्वि"ति

परिस्तरणानाम् अधि निधानी +आच्छेदनी+++(=ऊर्ध्वम् द्वितीया ऋक्)+++ संनहनीति+++(=ऊर्ध्वं तृतीया ऋक्)+++ यथालिङ्गम् ५

06 खादिरम् पालाशं वैकविंशतिदारुमिध्मङ् ...{Loading}...

खादिरं पालाशं वैकविंशतिदारुम् +++(तेष्वाघारौ २, परिध्यर्थाः ३, अनूयाज-समिच्च १)+++ इध्मं करोति ६

07 त्रयः परिधयः ...{Loading}...

+++(तेषु)+++ त्रयः परिधयः ७

08 पलाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा ...{Loading}...

+++(परिध्यर्थे -)+++ पलाश-कार्ष्मर्य-खदिर+उदुम्बर-बिल्व-रोहीतक+++(=वटजातीयो)+++-विकङ्कतानां ये वा यज्ञिया वृक्षाः ८

09 आर्द्राः शुष्का वा ...{Loading}...

आर्द्राः शुष्का वा सत्वक्काः ९

10 स्तविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ ...{Loading}...

स्थविष्ठो मध्यमो,
ऽणीयान् द्राघीयान् दक्षिणार्ध्यो,
ऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः १०

11 द्वे आघारसमिधावनूयाजसमिदेकविंशीति ...{Loading}...

+++(पूर्वोक्त इध्मे)+++ द्वे आघारसमिधाव् अनूयाजसमिद् एकविंशीति ११

12 समूलानामृतेमूलानां वा दर्भाणाम् ...{Loading}...

समूलानामृते ऽमूलानां वा दर्भाणां पूर्ववच् +++(तूष्णीं)+++ छुल्बं कृत्वा, उदगग्रं वितत्य १२

इति पञ्चमी कण्डिका


  1. See I. 3.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. i.e. the place where afterwards the altar will be prepared. ↩︎ ↩︎ ↩︎

  3. Cp. I. 4.1. Cf. TB III. 2.2.9. ↩︎ ↩︎

  4. See II. 9.5. ↩︎ ↩︎