०४

01 पृथिव्याः सम्पृचः पाहीत्यनधो ...{Loading}...

“पृथिव्याः संपृचः पाही"त्य् अनधो+++(=न+अधः =अभूमौ)+++ निदधाति १

02 अयुजो मुष्टींल्लुनोति ...{Loading}...

अयुजो मुष्टील्ँ लुनोति २

03 तथा निधनानि ...{Loading}...

तथा निधनानि+++(=मुष्टीनां राशयः)+++ +++(अयुञ्जि भवन्ति।)+++३

04 तेषाम् प्रस्तरोऽयुगर्थ इत्येके ...{Loading}...

तेषां +++(निधनगतानां दर्भमुष्टीनाम्)+++ प्रस्तरो ऽयुगर्थ इत्येके (नाम तेषु प्रस्तरो ऽन्तर्भवतीति) ४

05 प्रस्तरे याथाकामी ...{Loading}...

+++(आपस्तम्बस्तु -)+++ प्रस्तरे याथाकामी ५

06 यदन्यत्परिषवणादुत्सर्जनाच्च तत्सर्वत्रावर्तते ...{Loading}...

यदन्यत् +++(देवबर्हिः-)+++परिषवणाद् +++(पशुबर्हिर्-)+++उत्सर्जनाच्च तत् सर्वत्र+++(=सर्वासु मुष्टिषु)+++ आवर्तते ६

07 प्रस्तरमेव मन्त्रेण दाति ...{Loading}...

प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम् ७

08 सर्वं लुत्वा देवबर्हिः ...{Loading}...

सर्वं लुत्वा “देवबर्हिः शतवल्शं विरोहे"त्य् अलवान्+++(=अलूनान् दर्भान्)+++ अभिमृशति ८

10 अदित्यै रास्नासीति त्रिधातु ...{Loading}...

“अदित्यै रास्नासी"ति त्रिधातु+++(त्रिसन्धिं)+++ पञ्चधातु वा शुल्बं +++(=एकसरां रज्जुम्)+++ करोति १०

11 आयुपिता योनिरिति प्रतिदधाति ...{Loading}...

“आयुपिता योनिरि"ति प्रतिदधाति +++(शुल्बम्)+++ ११

12 अदित्यै रास्नासीत्युदगग्रं वितत्य ...{Loading}...

“अदित्यै रास्नासी"त्युदगग्रं +++(शुल्बम्)+++ वितत्य,
“सुसंभृता त्वा संभरामी"ति तस्मिन् निधनानि+++(=दर्भमुष्टिराशयः)+++ संभृत्य,
“आलुभिता योनि"रित्युत्तमे निधने+++(=स्थाने दर्भमुष्टिसमूहे ९-सङ्ख्याके)+++ प्रस्तरम् +++(=आदौ यत् कर्तितम्)+++ अत्याधाय
“इन्द्राण्यै संनहन"मिति +++(शुल्बस्योपरि)+++ संनह्यति १२

13 पूषा ते ग्रन्थिङ् ...{Loading}...

“पूषा ते ग्रन्थिं ग्रथ्नात्वि"ति ग्रन्थिं करोति १३

14 स ते मास्थादिति ...{Loading}...

“स ते मास्थादि"ति पुरस्तात् प्रत्यञ्चं ग्रन्थिम् उपगूहति पश्चात्प्राञ्चं वा १४

15 आपस्त्वामश्विनौ त्वामृषयः सप्त ...{Loading}...

“आपस् त्वाम् अश्विनौ त्वाम् ऋषयः सप्त मामृजुः ।

+++(सन्नहनी-मन्त्रः सूत्रान्तरे दर्शितोऽधः।)+++

शिरसि सादनम्

बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ” इति बर्हिरार+++(ल)+++भते ।
“इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ” इत्युद्यच्छते ।
“बृहस्पतेर् मूर्ध्ना हरामी"ति शीर्षन्न्+++(=शिरसि)+++ अधिनिधत्ते १५

इति चतुर्थो कण्डिका


  1. TS I.1.2.k. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus he keeps some grass on the ground and on it he keeps down the Prastara. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See I. 4.3. 4. The formula is found only here. ↩︎ ↩︎

  4. TS I. 1.1.2.m. ↩︎