०३

01 उत्तरेण गार्हपत्यमसिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता ...{Loading}...

उत्तरेण गार्हपत्यम् असिदो+++(=दात्रं / sickle)+++ ऽश्व-पर्शुर्+++(=पार्श्वास्थि/ rib।)+++ अनडुत्पर्शुर् वा निहिता १

02 देवस्य त्वा सवितुः ...{Loading}...

“देवस्य त्वा सवितुः प्रसव” इत्यसिदमश्वपर्शुं वादत्ते तूष्णीमनडुत्पर्शुम् २

03 यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य ...{Loading}...

“यज्ञस्य घोषदसी"ति गार्हपत्यम् अभिमन्त्र्य
“प्रत्युष्टं रक्षः प्रत्युष्टा अरातय” इत्याहवनीये गार्हपत्ये वासिदं प्रतितपति ३

04 न पर्शुम् ...{Loading}...

न पर्शुम् ४

05 प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीचीं वा ...{Loading}...

+++(गमने)+++ “प्रेयमगाद्” इत्युक्त्वा, +++(प्रत्यागमने)+++ “उर्वन्तरिक्षमन्विही"ति प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतः कुतश्चिद् दर्भमयं बर्हिर् आहरति ५

06 देवानाम् परिषूतमसीति दर्भान्परिषौति ...{Loading}...

“देवानां परिषूतमसी"ति दर्भान् परिषौति +++(परिचिनोति)+++ ६

07 विष्णो स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्बमुत्सृजति ...{Loading}...

“विष्णो स्तूपोऽसी"त्य् +++(लाव्यत्वेन)+++ अभिप्रेतानामेकं स्तम्बम् +++(=एकमूलप्रभवं दर्भसमूहम्)+++ उत्सृजति+++(=बहिष्करोति)+++ ७

08 एकं वा स्तम्बम् ...{Loading}...

एकं वा स्तम्बं परिषूय+++(=परिगृह्य)+++, तं सर्वं दाति+++(=छिनत्ति)+++ ८

09 अतिसृष्टो गवाम् भाग ...{Loading}...

“अतिसृष्टो गवां भाग” इति वैकां द्वे तिस्रो वा नाडीर्+++(=शलाकाः)+++ उत्सृजति ९

10 इदन् देवानामिति परिषूतानभिमृशति ...{Loading}...

“इदं देवानामि"ति परिषूतान् अभिमृशति । “इदं पशूनामि"त्यतिसृष्टान् १०

11 देवस्य त्वा सवितुः ...{Loading}...

“देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां - बर्हिर्देवसदनमारभ” इति विशाखेषु +++(=यतः शाखास् तत्र - प्रकाण्डाद् ऊर्ध्वम्)+++ दर्भानार+++(ल)+++भते+++(=स्पृशति)+++ ११

12 देवबर्हिर्मा त्वान्वङ्मा तिर्यगिति ...{Loading}...

+++(शाखावन्त एव दर्भा इष्टाः, काण्डाद् ऊर्ध्वमेव च कर्तनम् - पूर्णनाशो मा भूद् इति भावः।)+++
“देवबर्हिर् मा त्वान्वङ् मा तिर्यगि"ति +++(सव्यपाणिने)+++ संयच्छति १२

13 पर्व ते राध्यासमित्यसिदमधिनिदधाति ...{Loading}...

“पर्व ते राध्यासमि"त्यसिदम् अधिनिदधाति १३

14 आच्छेत्ता ते मा ...{Loading}...

“आच्छेत्ता ते मा रिषमि"त्याच्छिनत्ति १४

15 सन्नखम् मुष्टिं लुनोति ...{Loading}...

+++(अङ्गुष्ठ-तर्जन्य्-अग्र-मेलनेन)+++ संनखं मुष्टिं लुनो+++(ना)+++ति १५

16 स प्रस्तरः ...{Loading}...

स प्रस्तरः +++(इति प्रमाणम्, प्रथममुष्टेश् च नाम)+++ १६

17 कुल्मिमात्रोऽरत्निः प्रादेश ऊर्वस्थि ...{Loading}...

कुल्मिमात्रो +++(=गोपुच्छम् गोग्रासो वा)+++, ऽरत्निः +++(=कूर्परात् कनिष्ठिकान्तं)+++, +++(द्वादशाङ्गुलिविस्तारः)+++ प्रादेश, ऊर्व्-अस्थि, जान्व्-अस्थि, स्रुग्-दण्ड
इति वा तिर्यक्प्रमाणानि १७

इति तृतीया कण्डिका


  1. TB III. 2.2.1 mentions only the horse’s rib. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I. 1.2.p. ↩︎ ↩︎